Table of Contents

<<8-4-18 —- 8-4-20>>

8-4-19 अनितेः

प्रथमावृत्तिः

TBD.

काशिका

अनितेः नकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति। प्राणिति। पराणिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

308 अनितेः। `रषाभ्यां नो णः' इत्यनुवर्तते। `उपसर्गादसमासेऽपी'त्यत उपसर्गादिति। तदाह–उपसर्गस्थादिति। भिन्नपदस्थत्वादप्राप्तौ वचनम्। जक्षधातुः सेट्। वलादौ सार्वधातुकेऽपि `रुदादिभ्यः' इति सेट्।

तत्त्वबोधिनी

268 अनितेः। `उपसर्गादसमासेऽपी'त्यत उपसर्गादिति वर्तते, `रषाभ्या'मित्यतो `नो णः' इतिच। तदाह– उपसर्गस्थादित्यादि।

Satishji's सूत्र-सूचिः

TBD.