TBD.
एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर् यः सुशब्दः, कश्च तयोः सुशब्दः? यः तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोः इति किं? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम्? एतौ गावौ चरतः। अकोः इति किम्? एषको ददाति। सको ददाति। तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदे ऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समासे इति किम्? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वान्नञ्समासस्य एतत्तदोरेव अत्र सम्बद्धः सुशब्दः। हलि इति किम्? एषो ऽत्र सो ऽत्र।
TBD.
114 अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे. एष विष्णुः. स शम्भुः. अकोः किम्? एषको रुद्रः. अनञ्समासे किम्? असः शिवः. हलि किम्? एषोऽत्र..
175 एतत्तदोः। `एतत्तदो'रित्यत्र `त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' इत्येकशेषस्य, त्यदाद्यत्वस्य चाऽभाव आर्षः। `सु' इति लुप्तषष्ठीकं पदम्- `एतत्तदो'रित्यनेनान्वेति-एतत्तदोः सकारस्येति। अत एव सोर्लोपः सुलोप इति न षष्ठीसमासः, असामथ्र्यात्। अविद्यमानः ककारो ययोस्तौ अकौ, तयोः अकोरिति बहुव्रीहिः। तदाह-अककारयोरित्यादिना। `अनञ्समासे' इति न पर्युदासः। तथा सति नञिवयुक्तन्यायान्नञ्समाससदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्यभिप्रेत्याह-न तु नञ्समास इति। एष विष्णुः, स शम्भुरिति। एषस् विष्णुः, सस् शम्भुरिति स्थिते सकारस्य लोपः। एषको रुद्र इति। `अव्ययसर्वनाम्नामकच्प्राक्टेः' इति अकच्। अत्र एतच्छब्दस्य सककारत्वान्न सुलोपः। तच्छब्देऽकचि सको रुद्र इत्यपि प्रत्युदाहरणम्। न चाऽकचि सति शब्दान्तरत्वात्प्राप्तिरेव नेति वाच्यम्, `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते' इति परिभाषया साकच्कस्य अशब्दान्तरत्वात्। परिभाषाया तु इदमेव ज्ञापकम्। असश्शिव इति। न सः-अस इति विग्रहः। `विसर्जनीयस्य स' इति सत्वे श्चुत्वे शकारः। नञ्समासत्वान्न सुलोपः। अनेश्शिव इत्यपि प्रत्युदाहरणम्। एषोऽत्रेति। एषस्-अत्रेति स्थिते, सस्य रुत्वम्, उत्वम्, आद्गुणः, हल्परकत्वाभावान्न लोपः। अत्र `एतत्तदोरवयवस्य सो'रिति न व्याख्याम्, असम्भवात्, सोः परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात्। `एतत्तद्भ्यां परस्य सो'रित्यपि न भवति, एतत्तदोरिति षष्ठीविरोधात्। `एतत्तद्भ्यां विहितस्ये'ति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्तिः। तत्र सोः समासाद्विहितत्वेन एतत्तद्भ्यां विहितत्वाभावात्। अनञ्समास इति प्रतिषेधवैयथ्र्याच्च। अत `एतत्तदर्थगतसङ्ख्याभिधायिनः सो'रिति व्याख्येयम्।
145 एतत्तदोः। अत्र त्यदाद्यत्वमेकशेषश्च न कृतः, सौत्रत्वात्, `प्रकृतिवदनुकरण'दिति वैकल्पिकातिदेशाद्वा। एवं च वृत्तावप्येतत्तदोरिति प्रयोगः साधुः। `हल्ङ्याब्भ्यः'-इत्यस्यानन्तरमेवेदं लाघवाय न कृतं, संहिताधिकारोपजीवनादित्याहुः। सूत्रे `सु' इति पृथक् पदं लुप्तषष्ठीकमित्याह- एतत्तदोर्यः सुरिति। एतत्तदर्थगतसङ्ख्याभिधायी यः सुस्तस्येत्यर्थः। `एतत्तदोर्विहिकत' इति व्याख्याने तु परमैष ददाति परमस ददातीत्यादौ सुलोपो न स्यात्। `एतत्तदौः पर' इति व्याख्यानं तु न संभवति, `एतत्तभ्द्या'मिति पञ्चम्यभावात्। `एतत्तदोरवयव' इति तु न संभवत्येव, सोः प्रत्ययत्वात्। तस्मादर्थद्वारकसंबन्ध एवाश्रितः। तदाश्रयणे लिङ्गं तु `अनञ्समासे'-इति बोध्यम्। एतत्तदोः किम्?, यो ददाति। अकोः किमिति। साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः। एषक इति। अकोरिति प्रतिषेध एव `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते' इति परिभाषां ज्ञापयतीति भावः।
35) एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 6-1-132
वृत्ति: अककारयोरेतत्तदोर्य: सुस्तस्य लोपो हलि न तु नञ्समासे । We will ignore the terms अकोरनञ्समासे because they have only rare application. The affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल्) follows.
गीतासु उदाहरणम् – श्लोकः bg1-13
सस् + शब्दः = स + शब्दः (Note: सस् is the masculine nominative singular form of the प्रातिपदिकम् (nominal base) तद्)
द्वितीयम् उदाहरणम् – श्लोकः bg3-37
एषस् + क्रोध: = एष + क्रोधः (Note: एषस् is the masculine nominative singular form of the प्रातिपदिकम् (nominal base) एतद्)