TBD.
अधिकारो ऽयम्। आपादपरिसमाप्तेः ये प्रत्ययाः विहितास् ते समासान्तावयवा एकदेशाः भवन्ति, तद्ग्रहणेन गृह्यन्ते इति वेदितव्यम्। प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। उपराजम्। अधिराजम्। न अव्ययीभावातित्येष विधिर् भवति, अनश्च 5-4-108 इति टच्। द्विपुरी, तिर्पुरी इति। द्विगोः 4-1-21 इति ङीप् भवति। कटकवलयिनी। शङ्खनूपुरिणी। कोशनिषदिनी। स्रक्त्वचिनी। द्वन्द्वोपतापगर्ह्यातिति इनिर् भवति। विधुरः। प्रधुरः। तत्पुरुषे तुल्यार्थ इत्येष स्वरो भवति। उच्चैर् धुरः। नीचैर् धुरः। बहुव्रीहौ प्रकृत्या पूर्वपदम् 6-2-1 इत्येतद् भवति।
TBD.
–
668 समासान्ताः। इत्यधिकृत्येति। `आपादपरिसमाप्ते'रिति भावः। अत्र समासपदमलौकिकविग्रहवाक्यपरमेव। अत एव `बहुकुमारीक' इत्यत्र ह्यस्वो न। `गोस्त्रियोः' इति सूत्रे `अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत्। एवंचाऽलौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः। अन्तशब्दश्चरमावयववाची। अत एव उपशरदमित्यादौ `नाव्ययीभावा'दित्यम्। तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाऽभावादम् न स्यात्। तथाच टचस्तदनवयवत्वे `अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत। टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरदित्यस्याव्ययत्वाऽभावान्न टिलोपः। समासान्तप्रत्ययाश्चलौकिकविग्रवाक्ये सुपः परस्तादेव भवन्ति। अत एव `प्रत्ययस्थात्' इति सूत्राभाष्ये `बहुचर्मिका' इत्युदाह्मतं सङ्गच्छते। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।
592 समासान्त इति। समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः। तेनोपशरदमित्यत्र `नव्ययीभावा'दित्यम् सिध्द्यति, अव्ययीभावस्याऽदन्तत्वात्, द्विपुरीत्यादौतु `ऋक्?पूरब्धू'रित्यप्रत्यय उत्तरपदस्यावयव इति `अकारान्तोत्तर पदो द्विगुः स्त्रियो'मिति स्त्रीत्वे `द्विगो'रिति ङीप्सिध्यतीति बोध्यम्।
TBD.