Table of Contents

<<5-4-66 —- 5-4-68>>

5-4-67 मद्रात् परिवापणे

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मण्डनं करोति मद्राकरोति। भद्राच् च इति वक्तव्यम्। भद्राकरोति नापितः कुमारम्। परिवापणे इति किम्? भद्रं करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1183 मद्रात्परिवापणे। `डा'जिचि शेषः। मङ्गलार्थ इति। मङ्गलपर्याय इत्यर्थः। परिवापणंमुण्डनमिति। `केशान्वपते' इत्यादौ तथा दर्शनादिति भावः। माङ्गल्यमुण्डनेनेति। चौलेनेत्यर्थः। मद्रं करोप्ति भद्रं करोतीति। क्षेमं करोतीत्यर्थः। अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः।

बालमनोरमा

याम् तद्धितप्रक्रिया। तद्धितेषु रक्ताद्यर्थकाः।

तत्त्वबोधिनी

330 परिवापणमिति। कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युडिति हरदत्त्#ः। कर्मव्यापारः—फलं, तस्य कर्मनिष्ठत्वात्। तथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः। माङ्गल्यमुण्डनेनेति। चौलदीक्षादौ। भद्राच्चेति। भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम्।\र्\निति तत्वबोधिन्यां तद्धितप्रक्रिया।

Satishji's सूत्र-सूचिः

TBD.