Table of Contents

<<4-1-20 —- 4-1-22>>

4-1-21 द्विगोः

प्रथमावृत्तिः

TBD.

काशिका

द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला? अजादिषु दृश्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

473 द्विगोः। `स्त्रिया'मिति `अत' इति `ङी' बिति चानुवर्तते। तदाह-अदन्तादिति। त्रिलोकीति। त्रयाणां लोकानां समाहार इति विग्रहः। `तद्धितार्थोत्तरपदसमाहारे चे'ति द्विगुसमासः। `अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम्। त्रिलोकशब्दाट्टाबपवादो ङीप्। `यस्येति चे'ति भावः। ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह–अजादित्वात्रिफला त्र्यनीकेति। `भवती'ति शेषः। त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे `तद्धितार्थ' इति द्विगुः। `अकारान्तोत्तरपदः' इति स्त्रीत्वम्, `द्विगोः' इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः। अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः। अपरिमाण। `द्विगोः' इति ङीबिति चानुवर्तते। प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते। तदन्तविधिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.