Table of Contents

<<5-4-68 —- 5-4-70>>

5-4-69 न पूजनात्

प्रथमावृत्तिः

TBD.

काशिका

यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहःसखिभ्यष् टच् 5-4-91 इत्येवम् आदीन्, यदा ते पूजनात् पूजनवचनात् परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः। पूजायां स्वतिग्रहणं कर्तव्यम्। इह मा भूत्, परमराजः, परमगवः इति। प्राग्बहुव्रीहिग्रहणं च कर्तव्यम्। बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवम् आदौ प्रतिषेधो न भवति। सुसक्थः। अतिसक्थः। स्वक्षः। अत्यक्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

999

बालमनोरमा

940 न पूजनात्। `परेभ्य' इत्यध्याहार्यम्। `समासान्ता' इति पूर्वसूत्रमनुवर्तते। तदाह–पूजनार्थादिति। `पूजायां स्वतिग्रहणं कर्तव्य'मिति वार्तिकमभिप्रेत्योदाहरति–सुराजेति। सु=शोभनो राजेति प्रादिसमासः। अतिराजेति। पूज्यो राजेत्यर्थः। उभयत्रापि `राजाहःसखिभ्यः' इति टज्न भवति। स्वतिभ्यामेवेति। स्वतिभ्यां परो यो राजन्शब्दस्तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः। नेहेति। `निषेधे' इति शेषः। परमराज इति। परमश्चासौ राजा चेति विग्रहः। अतिगव इति। `अत्यादयः' इति समासः। अतेः पूजनार्थकत्वाऽभावान्न टचो निषेधः। एवं `परमराज' इत्यत्रापि। इत्यतः प्रागिति। `प्राग्बहुव्रीहिग्रहणं कर्तव्य'मिति वार्तिकार्थसङ्ग्रहोऽयम्। सुसक्थः स्वक्ष इति। सु=शोभने सक्थिनी यस्य, सु=शोभने अक्षिणी यस्येति च विघः। `बहुव्रीहौ सक्थ्यक्ष्णो'रिति षच्। किमः क्षेपे। किंराजा किंसखेति। इह `राजाहःसखिभ्यः' इति टज्नभवति, `किं क्षेपे' इति समासः। किंराजः किंसख इति। किंशब्दोऽत्र प्रश्ने। कस्य राजा, को राजेति वा विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.