Table of Contents

<<5-4-155 —- 5-4-157>>

5-4-156 ईयसश् च

प्रथमावृत्तिः

TBD.

काशिका

ईयसन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसः अस्य बहुश्रेयान्। शेषाद् विभाषा 5-4-154 इत्यस्य प्रतिषेधः। बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी। नद्यृतश्च 5-4-153 इत्यसय् प्रतिषेधः। ह्रस्वत्वम् अपि न भवति, ईयसो बहुव्रीहौ पुंवतिति वचनात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

885 ईयसश्च। बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईयसन्तत्वादाह–ईयसन्तोत्तरपदादिति। बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत #इति भावः। न कबिति। `न संज्ञेयसो'रिति वक्तव्ये पृथग्योगकरणान्नित्यस्य वैकल्पिकत्य च कपोऽयं निषेध इति भावः। श्रेयांस इति। अतिशयेन प्रशस्ता इत्यर्थः। `द्विवचनविभज्य' इति ईयसुन्। `प्रशस्यस्य श्रः' इति श्रः, `आद्गुणः' इति गुणः। बहुश्रेयानिति। शैषिकः कब्निषिध्यते। ह्यस्वत्वे प्राप्ते इति। बह्व्यः श्रेयस्यो यस्येति बहुव्रीहिः। तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात् `गोस्त्रियो'रिति ह्यस्वत्वे प्राप्ते इत्यर्थः। \र्\नीयसो बहुव्रीहेरिति। ईयसन्ताद्बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्यस्वो नेति वाच्यमित्यर्थः। बहुश्रेयसीति। `नद्यृतश्चे'ति नित्यः कबिह निषिध्यते, लिङ्गविसिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः। बहुव्रीहेः किमिति। ईयसो बहुव्रीहेरित्यत्रे'ति शेषः। अतिश्रेयसिरिति। श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः।

तत्त्वबोधिनी

765 ईयसश्च। नित्यो वैकल्पिकश्च कप्सर्वोऽपि निषिध्यते। बहुश्रेयानिति। अतिशयेन प्रशस्यः–श्रेयान्। `द्विवचनविभज्योपे'तीयसुन्। `प्रशस्यस्य श्रः'। `शेषद्विभाषे'ति कप्प्राप्तः।\र्\नीयसो बहुव्रीहेर्नेति वाच्यम्। बहुश्रेयसीति। `नद्यृतश्चे'ति नित्यं प्राप्तः कब्लङ्गविशिष्टपरिभाषया `ईयसश्चे'ति प्रतिषिध्यते।

Satishji's सूत्र-सूचिः

TBD.