Table of Contents

<<5-4-152 —- 5-4-154>>

5-4-153 नद्यृतश् च

प्रथमावृत्तिः

TBD.

काशिका

नद्यन्तात् बहुव्रीहेः ऋकारान्तात् च कप् प्रत्ययो भवति। बह्व्यः कुमार्य अस्मिन् देशे बहुकुमारीकः देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि बहुकर्तृकः। तकारः मुखसुखार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

823 नद्यृतश्च। नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी। `बहुव्रीहौ सक्थ्यक्ष्णो'रित्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते। तदाक्षिप्तमुत्तरपदं नद्यृद्भ्यां विशेष्यते। तदन्तविधिः। `उरः प्रभृतिभ्यः' इत्यतः कबित्यनुवर्तते। तदाह–नद्युत्तरपदादिति। नद्यन्तोत्तरपदादित्यर्थः। कप् स्यादिति। तद्धितः समासान्तश्चेत्यपि बोध्यम्। तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः। `नद्यन्ताद्बहुव्रीहे'रिति न व्याख्यातं, बहुधीवरीति बहुव्रीहेर्नद्यन्तत्वात्कबापत्तेः। `नद्यन्तोत्तरपदा'दिति व्याख्याने तु न दोषः, धीवन्शब्दयोत्तरपदस्य नकारान्तत्वेन नदीत्वाऽभावादिति शब्देन्दुशेखरे विस्तरः। पुंवद्भाव इति। पूरण्या रात्रेः समासवाच्यत्वाऽभावेन निषेधाऽभावादिति भावः।\त्

तत्त्वबोधिनी

723 नद्युत्तरपदादिति। `नद्यन्ता'दिति नोक्तं, कप्रत्ययेन सह समासे कृते बहुव्रीहेरनद्यन्तत्वात्। उत्तरपदं तु नद्यन्तं भवत्येव, `समासे अन्तः समासान्तः'इति पक्षाश्रयणादिति बोध्यम्। दृढमिति। अदाढर्\उfffद्निवृत्तिमात्रपरत्वेनात्र दृढशब्दप्रयोगान्न लिङ्गविशेषविवक्षेति भावः। लिङ्गविशेषविवक्षायां तु दृढभक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः।

Satishji's सूत्र-सूचिः

TBD.