TBD.
यस्माद् बहुव्रीहेः समासान्तो न विहितः स शेषः तस्माद् विभाषा कप् प्रत्ययो भवति। बह्व्यः खट्वाः अस्मिन् बहुखट्वकः। बहुमालकः। बहुवीणकः। बहुखट्वाकः। बहुमालाकः। बहुवीणाकः। बहुखट्वः। बहुमालः। बहुवीणः। कथम् अनृक्कं साम, बह्वृक्कं सूक्तम् इति, यावता विहितो ऽत्र सामान्येन समासान्तः ऋष्पूः इति। न एतदस्ति। विशेषे स इष्यते, अनृचो माणदको ज्ञेयो बह्वृचश्चरणाख्यायाम् इति। शेषातिति किम्? प्रियपथः। प्रियधुरः।
TBD.
987
882 शेषाद्विभाषा। इतः पूर्वं येब्यः समासान्ता विहितास्तेभ्योऽन्यः शेषः। तदाह– अनुक्तसमासान्तादिति। शेषाधिकारस्थादिति। `शेषा'दित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः। महयशस्क इति। महत् यशः यस्येति विग्रहः `आन्महतः' इत्यात्त्वे, कपि, `सोऽपदादौ' इति सत्वम्। महायशा इति। कबभावे `अत्वसन्तस्ये'ति दीर्घः। व्याघ्रपादिति। `पादस्य लोपोऽहस्त्यादिभ्यः' इत्युक्तसमासान्तोऽयम् स्थानिद्वारा लोपस्यापि समासान्तत्वात्। सुगन्धिरिति। `गन्धस्येदुत्पूती'ति कृतसमासान्तोऽयम्। प्रियपथ इति। `ऋक्पू'रिति कृतसमासान्तोऽयम्। उपबहव इति। सङ्ख्ययाव्यये'ति बहुव्रीहिरयं, न शेषाधिकारस्थः। उत्तरपूर्वेति। अयमपि `दिङ्नामान्यन्तराले' इति बहुव्रीहिः न सेषाधिकारस्थः। सपुत्र इति। `तेन सह' इत्ययमपि बहुव्रीहिः न शेषाधिकारस्थः। ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह– तन्त्रादिनेति। आदिना आवृत्तिसंग्रहः। एकमनेकोपयोगि तन्त्रम्। उच्चारयित्रा तन्त्रेणोच्चारिताच्छब्दादावृत्त्या बोध इति बोध्यम्। `\उfffदोतो धावती'त्यादौ सकृदुच्चारणेऽपि `\उfffदाआ इतो धावति, \उfffदोत गुणको धावती'त्येवमनेकार्थबोधदर्शनादिति भावः।
764 शेषद्वि। यद्यत्र प्रागुक्तकब्मात्रापेक्षः शेषः स्यात्तर्हि व्याघ्रपात्सुगन्धिरित्यादावपि स्यादतः समासान्तापेक्षः शेष इह गृह्रत इत्याह— अनुक्तसमासान्तादिति। व्याघ्रपादिति। स्थानिद्वारा लोपोऽपि समासान्तापेक्ष इत्युक्तम्। सुगन्धिरिति। `गन्धस्ये'दित्यादिना इत्समासान्तः। प्रियपथ इति। `ऋक्पूः—'इत्युप्प्रत्ययः समासान्तः। उपबहव इति। `संङ्ख्याव्यये'त्यादिना समासः। उत्तरपूर्वेति। `दिङ्नामे'त्यादिना समासः। सुपुत्र इति। `तेन सहेती'त्यादिना समासः। अयं भावः–`शेषो बहुव्राहि'रित्यतऋ शेषपदम् `अनेकमन्यपदार्थे'इत्येतस्मिन्नेव सूत्रेऽनुवर्तते, `सङ्ख्यायाव्ययासन्ने'त्यादिषु च निवर्तते। तथा च शेषधिकारस्थात्वाऽभावादुपबहव इत्यादिषु कप्प्रत्ययो नेति। एवं च `अनेकमन्यपादर्थे'इति सूत्रत्पृथक् `सङ्ख्ययाव्ययासन्ने'त्यादीनामारम्भः कबभावार्थमप्यावश्यक इति स्थितम्। ननु सकृदुच्चरितस्य शेषशब्दस्याऽनुक्तसमासान्तपरत्वं शेषाधिकारस्थपरत्वं च कथमित्यत आह— तन्त्रादिनेति। `अर्थभेदेन शष शब्दभेदः', `सत्यप्यर्थभेदे ब्दस्याऽभेदः'इति मतद्वयम्। आद्ये आवृत्तिर्द्वितीये तन्त्रमिति विवेकः। यत्तु वदन्ति— `प्रतिपदोक्ताः समासान्ताः स्वविषये बाधका भवन्ति, तत्किमनुक्तसमासान्तपरेण शेषग्रहणेने'ति। तन्न। `ऋक्पूः' इत्यादीनां समासान्तरे चरितार्थतया `प्रियपथ'इत्यादौ परेण कपा बाधापत्तेः।
TBD.