Table of Contents

<<5-4-156 —- 5-4-158>>

5-4-157 वन्दिते भ्रातुः

प्रथमावृत्तिः

TBD.

काशिका

वन्दिते ऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः स्तुतः पूजितः इत्युच्यते। शोभनो भ्राता अस्य सुभ्राता। वन्दितः इति किम्? मूर्खभ्रातृकः। दुष्टभ्रातृकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

886 वन्दिते भ्रातुः। पूजितेऽर्ते इति। `वदि अभिवादनस्तुत्यो'रित्युभयार्थकवदिधातोरिह उभयसाधारमपूजार्थकत्वमाश्रीयत इति भावः। प्रशस्तभ्रातेति। `नद्यृतश्चे'ति प्राप्तः कबिह निषेध्यते। सुभ्रातेति। सु=शोभनो भ्राता यस्य स इति विग्रहः। अत्रापि `नद्यृतश्चे'ति प्राप्तस्य कपो निषेधः। ननु `न पूजना'दित्येव निषेधे सिद्धे किमर्थमिदमित्यत आह–न पूजनादिति। प्रागेवेति। एवंच `नद्यृतश्चे' त्यादिकपस्तेन निषेधाऽप्राप्तौ इदं वचनमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.