Table of Contents

<<5-4-115 —- 5-4-117>>

5-4-116 अप् पूरणीप्रमाण्योः

प्रथमावृत्तिः

TBD.

काशिका

पूरणप्रत्याऽन्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते। प्रमाणी इति स्वरूपग्रहणम्। पूरण्यनतात् प्रमाण्यन्तात् च भुव्रीहेः अप् प्रत्ययो भवति समासान्तः। कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः। कल्याणीदशमा रात्रयः। स्त्री प्रमाणी एशाम् स्त्रीप्रमाणाः कुटुम्बिनः। भार्याप्रधानाः इत्यर्थः। अपि प्रधानपूरणीग्रहणम् कर्तव्यम्। यत्र अन्यपदार्थे पूरणी अनुप्रविशति न केवलं वर्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यम्। पुंबद्भावप्रतिषेधे ऽपि प्रधानपूरण्येव गृह्यते। इह न भवति, कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्षः इति। नेतुर्नक्षत्र उपसङ्ह्यानम्। मृगो नेता आसां रात्रीणाम् मृगनेत्रा रात्रयः। पुष्यनेत्राः। नक्षत्रे इति किम्? देवदत्तनेतृकाः। छन्दसि च नेतुरुपसङ्ख्यानम्। वृहस्पतिनेत्रा देवाः। सोमनेत्राः। मासाद् भृतिप्रत्ययपूर्वपदाट् ठज्विधिः। पञ्चको मासो ऽस्य पञ्चकमासिकः कर्मकरः। दशकमासिकः। सो ऽस्यांशवस्नभुऋतयः 5-1-56 इति सङ्ख्याया अतिशदन्तायाः कन् 5-1-52

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

973 पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात्. कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः. स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः. अप्रियादिषु किम्? कल्याणीप्रिय इत्यादि..

बालमनोरमा

822 अप्पूरणी। अविति छेदः। `बहुव्रीहौ सक्थ्यक्ष्णो'रित्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात्पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्रते। तदाह– पूर्वणार्थेत्यादिना। अप् स्यादिति। समासान्तस्तद्धित इत्यपि बोध्यम्। पञ्चमीति। पञ्चानां पूरणीत्यर्थः। `तस्य पूरणे डट्' `नान्तादसंख्यादे'रिति तस्य मडागमः। टित्त्वान्ङीप्। कल्याणीपञ्चमा रात्रय इति। इह बहुव्रीहौ कृते पञ्चमीशब्दे पूर्वणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः। अप्। समासान्तस्तद्धितः। टाप् `यस्येति चे'तीकारलोपः। ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्या वा, न वा?। नाद्यः। तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः। नान्त्यः। पञ्चम्या रात्रेरन्यपदार्थप्रवेशाऽभावे `कल्याणीपञ्चमा' इति समासात्पञ्चमीं रातिं?र विना चतुर्णामेव बोधनापत्तौ पञ्चपदस्याऽसङ्गत्यापादनादिति चेत्, सत्यम्-पञ्चानां रात्रीणामुद्भूतावयवभेदः समुदाय एवान्यपदार्थः। तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुध्यते, समुदायस्यावयवापेक्षया अन्यत्वात्। `रात्रय' इति बहुवचनं त्ववयवबहुत्वापेक्षम्। यथा चैतत्तथा सर्वनामसंज्ञासूत्रे प्रपञ्चितम्। अथ प्रमाण्यन्तादब्विधेरुदाहरणमाह–स्त्रीप्रमाण इति। प्रमाणशब्दोऽत्र करणल्युडन्तो विशेष्यनिघ्नः। टित्त्वान्ङीप्। बहुव्रीहौ सति अप्प्रत्यये `यस्येति चे'ति ईकारलोपे `स्त्रीप्रमाण' इति रूपम्। पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुंवत्त्वप्रसक्तिः। प्रधानपूरण्यामेवेति। `स्त्रियाः पुंव'दिति सूत्रे, `अप्पूरणी'ति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः। ननु `कल्याणीपञ्चमा रात्रय' इत्यत्र पञ्चम्या रात्रे समस्यमानपदार्थत्वात्कथं प्राधान्यं, बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह–रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति। `कल्याणीपञ्चमा रात्रय' इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदाय वटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः। उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्धटकतया यता प्रथमाद्याश्चतरुआओ रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेसात्प्राधान्यमिति भावः। अन्यत्र त्विति। `कल्याणपञ्चमीकः पक्ष' इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाऽभावादप्राधान्यादप्प्रत्ययाऽभावे सति विशेषो वक्ष्यत इत्यर्थः।

तत्त्वबोधिनी

722 प्रमाणीति। करणे ल्युट्। तदन्तस्य विशेष्यनिन्घत्वात्स्त्रियां ङीप्। कथं तर्हि `प्रमाणायां स्मृतौ' इति शाबरभाष्यमिति चेत्?। अत्र भट्टाः—–`प्रमाणमयते याति मूलभूतां श्रुति यतः। क्वीबन्तादयतेस्तस्मात्प्रमाण स्मृतिरुच्यते॥' इत्याहुः। तत्राऽयतेः क्विपि `ह्यस्वस्य पिति कृती'ति तुकि टाब्दुर्लभः, तथाप्यागमशास्त्रस्याऽनित्यत्वात्तुङ्नेति बोध्यम्। क्विबिववाचरति क्विब्, विजित्यर्थ इति वा व्याख्येयम्। अन्ये तु प्रमाणं वेदस्तद्वदाचरतीत्याचारक्वीबन्तात्प्रमाणशब्दात्पचाद्यचि टाबित्याहुः। प्रधानपूरण्या मेवेति। प्रधाने कार्यसंप्रत्ययान्न्यायसिद्धमिदम्। नद्यृतः। तपरत्वं स्पष्टार्थम्।

Satishji's सूत्र-सूचिः

TBD.