Table of Contents

<<5-1-55 —- 5-1-57>>

5-1-56 सो ऽस्य अंशवस्नभृतयः

प्रथमावृत्तिः

TBD.

काशिका

स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थम् अंशवस्नभृतयश्चेत् ता भवति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1699 सोऽस्यांश। स इति प्रत्येकमंशादिष्वन्वेति। सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। पञ्चक इति। `संख्यायाः' इति कन्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.