Table of Contents

<<5-1-55 —- 5-1-57>>

5-1-56 सो ऽस्य अंशवस्नभृतयः

प्रथमावृत्तिः

TBD.

काशिका

स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थम् अंशवस्नभृतयश्चेत् ता भवति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1699 सोऽस्यांश। स इति प्रत्येकमंशादिष्वन्वेति। सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। पञ्चक इति। `संख्यायाः' इति कन्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.