TBD.
ततिति द्वितीया समर्थविभक्तिरनुवर्तते। तदिति द्वितियासमर्थात् सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। तत्र अधेयस्य प्रमाणानतिरेकः सम्भवः। उपसंहरणम् अवहारः। विक्लेदनं पाकः। प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः। कौडविकः। खारीकः। ननु च पाके च सम्भवो ऽस्ति? न अस्त्यत्र नियोगः। प्रस्थं पचति ब्राह्मणी प्रास्थिकी। तत्पचति इति द्रोणादण् च। द्रोणं पचति द्रौणी, द्रौणिकी।
TBD.
–
1695 संभवत्यवहरति। `त'दिति द्वितीयान्तमनुवर्तते। द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः। प्रास्थिक इति। `आर्हा'दित्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ्। ननु `संभवती'त्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं संभवतीति कथं द्वितीयेत्यत आह–समावेशयतीत्यर्थ इति। उपसर्गवसादिति भावः। प्रास्थिकी ब्राआहृणीति। ठञन्तत्वान्ङीबिति भावः। अवहरतीप्येतीत्यर्थ इति। उपसर्गवशादिति भावः। प्रास्थिकी ब्राआहृणीति। ठञन्तत्वान्ङीबिति भावः। अवहरतीप्येद्व्याचष्टे– उपसंहरतीति। किंचिदूनमपि यया प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः। तत्पचतीति द्रोणादण् चेति। वार्तिकमिदम्। द्वितीयान्तोद्द्रोणशब्दात्पचतीत्यर्तेऽण्च स्यादित्यर्थः। पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम्। चाट्ठञिति। `आर्हा'दिति ठग्विधौ परिमाणपर्युदासाट्ठगभावे प्राग्वतेष्ठञेव चकारादनुकृष्यत इति भावः। द्रौणीति। अणन्तत्वान्ङीप्। द्रौणिकीति। ठञन्तत्वान्ङीप्।
1311 संभवत्यवहरति। आधारप्रमाणादाधेयप्रमाणस्य यदनाधिक्यं तदुपसर्जनं धारणं संभवतेर्थः। तेन सकर्मकत्वात्तदिति द्वितीयान्तानुवृत्तिर्न विरुध्यते। तदाह— प्रस्थं स्वस्मिन्निति। प्रास्थिकीति। ठञन्तत्वान्ङीप्। अवहरतीत्येतव्द्याचष्टे— उपसंहरतीति। संभवत्यवहरतीतिनिवृत्त्यर्थम्। द्रोणपरिमिते व्रीह्रादौ द्रोणशब्दो लाक्षणिकः। पक्षे ठञिति। आढकादीनां परिमाणत्वाट्ठक् नेति भावः।
TBD.