TBD.
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 5-3-27 इति वक्ष्यति। प्रागेतस्माद् दिक्षं शब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामो विभक्तिसंज्ञास् ते वेदितव्याः। वक्ष्यति पञ्चम्यास् तसिल् 5-3-7। ततः। यतः। कुतः। तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः इदमो विभक्तिस्वरश्च। इह। ऊडिदम् इति विभक्त्युदात्तत्वं सिद्धं भवति। अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वान् न उपयुज्यते इति निवृत्तम्। वावचनं तु वर्तत एव। तेन विकल्पेन तसिलादयो भवन्ति, कुतः , कस्मात्, कुत्र, कस्मिनिति।
TBD.
1200 दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः..
1922 अथ पञ्चमाध्यायस्य तृतीयापादे प्राग्दिशीयप्रकरणं निरूप्यते। प्राग्दिशो विभक्तिः। दिक्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह–दिक्छब्देभ्य इत्यत इति। विभक्तिसंज्ञका इति। तत्फलं तु `न विभक्तौ तुस्माः' इति निषेधः, त्यदाद्यत्वम्, इदम `ऊडिदंपदादी'ति स्वरश्च। स्वार्थिका इति। स्वीयप्रकृत्यर्थे भवा इत्यर्थः। तसिलादिष्वर्थनिर्देशाऽभावात्, `अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः। निवृत्तमिति। अत्रोपपत्तिः– `समर्थाना'मित्यत्रोक्ता। अनुवर्तत एवेति। व्याख्यानमेवात्र शरणम्।
–
TBD.