Table of Contents

<<5-3-1 —- 5-3-3>>

5-3-2 किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

प्राग्दिशः इत्येव। किमः सर्वनाम्नो बहुशब्दाच् च प्राग्दिशः प्रत्ययाः वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः , कुत्र। यतः, यत्र। ततः, तत्र। बहुतः, बहुत्र। अद्व्यादिभ्यः इति किम्? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसङ्ख्यानं किम्? वृक्षात्। वृक्षे। प्राग्दिशः इत्येव, वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणम् द्व्यादिपर्युदासात्। बहुग्रहणे सङ्ख्याग्रहणम्। इह न भवति, बहोः सूपात्, बहौ सूपे इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1204 प्राग्दिशीये परे. इतः..

बालमनोरमा

1923 किंसर्वनाम। अद्व्यादिभ्य इति च्छेदः। प्राग्दिश इत्यनुवर्तते। तदाह– प्राग्दिशोऽधिक्रियत इति। विधेयाऽनिर्देशादधिकारोऽयमिति भावः। किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम्। द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्र `त्यदादीनां मिथः सहौक्तौ' इति किमः शेषत्वाऽर्थः। अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह–इदम इशित्यादिना।

तत्त्वबोधिनी

1471 किंसर्वनाम। द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम्। द्व्यादिषु किंशब्दपाठे प्रयोजनं तु—त्वं च कश्च कौ।अहं च कश्च कौ। भवांश्चकश्च कौ इत्यत्र किमः शेषः, `त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते'इत्युक्तत्वात्।

Satishji's सूत्र-सूचिः

TBD.