Table of Contents

<<5-3-26 —- 5-3-28>>

5-3-27 दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः

प्रथमावृत्तिः

TBD.

काशिका

दिशां शब्दाः दिक्शब्दाः। तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्तमानेभ्यः सप्तमी. पञ्चमीप्रथमान्तेभ्यः अस्तातिः प्रत्ययो भवति स्वार्थे। यथासङ्ख्यम् अत्र न इष्यते। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्। दिक्शब्देभ्यः इति किम्? ऐन्द्र्यां दिशि वसति। सप्तमीपञ्चमीप्रथमाभ्यः इति किम्? पूर्वं ग्रामं गतः। दिग्देशकालेसु इति किम्? पूर्वस्मिन् गुरौ वसति। इकारस्तकारपरित्राणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अथ प्रागिवीयप्रकरणमारभ्यते–दिक्छब्देभ्यः। सप्तम्याद्यन्तेभ्य इति। सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः। रूढेभ्य इति। शब्दग्रहणलभ्यमिदम्। अस्तातिप्रत्यये इकार उच्चारणार्थः। तकारान्तः प्रत्ययः। `सङ्ख्याया विधार्थे धे'ति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जनमनुवर्तते। अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्यानात्।

तत्त्वबोधिनी

1484 दिग्देशकालेष्विति। यतासङ्ख्यमत्र नेष्यते, अस्वरितत्वात्।

Satishji's सूत्र-सूचिः

TBD.