Table of Contents

<<5-2-15 —- 5-2-17>>

5-2-16 अध्वनो यत्खौ

प्रथमावृत्तिः

TBD.

काशिका

ततिति द्वितीया समर्थविभक्तिरनुवर्तते। अलङ्गामी इति च प्रत्ययार्थः। अध्वन्शब्दात् द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानम् अलङ्गामी अध्वन्यः, अध्वनीनः। ये च अभवकर्मणोः 6-4-168, आत्माध्वानौ खे 6-4-169 इति प्रकृतिभावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1794 अद्वनो यत्खौ। अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः। अध्वानमलंगच्छतीति। अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.