Table of Contents

<<5-2-14 —- 5-2-16>>

5-2-15 अनुग्वलङ्गामी

प्रथमावृत्तिः

TBD.

काशिका

गोः पश्चादनुगु। अनुगुशब्दादलङ्गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। अनुगु पर्याप्तं गच्छति अनुगवीनः गोपालकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1793 अनुग्वलंगामी। `अनुगु' इत्यविभक्तिको निर्देशः। गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्यस्वत्वे अनुगुशब्दः। तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः। अत्र `अनुगु' इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः। कृद्योगषष्ठीत्यन्ये। `अलङ्गामी'त्यत्र अलंशब्दस्य विवरणं–पर्याप्तमिति। क्रियाविशेषणम्।

तत्त्वबोधिनी

1383 अनुग्वलं। `ख'इत्यनुवर्तते। अनुगुशब्दात् `अलंगामी'त्यस्मिन्नर्थे खः स्यात्। गोः पश्चादिति। पश्चादर्थेऽव्ययीभावः। पर्याप्तिमिति। क्रियाविशेषणम्। अत्र हरदत्तः—अनुग्वित्यस्य क्रियाविसेषणत्वाद्द्वितीयान्तादिह प्रत्ययः। न चालङ्गामीत्यस्य `सुप्यजातौ'इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्ठी स्यादिति वाच्यं, क्रियाविशेषणात्तदप्रवृत्तेः, `शोभनं पाचक'इत्यादौ तथादर्शनादित्याह। अत्र केचित्—धातूपात्तव्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम्। ततश्च `तण्डुलाना पाचक'इत्यत्र मुख्ये कर्मणि कृद्योगलक्षणा षष्ठी भवति। `मृदु पाचकः' `शोभनं पाचक'इत्यत्र तु सा न भवति, फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्योपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशयैत्याहुः। अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद्द्वितीययाया अप्यप्रवृत्तिः स्यात्। तस्मात् `तदर्ह मिति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सान स्वीक्रियत इति हरदत्ताशयः कथं चिद्वर्णनीय इत्याहुः। वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्बिवादम्। पश्चादिति चाऽस्तत्यर्थे निप#आतितम्। तच्च यद्यपि विभक्तित्रयसाधारणं तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः। अतस्तस्य कर्मत्वाऽयोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम्। कृद्योगलक्षणषष्ठीशङ्काऽप्यत एव नेति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.