Table of Contents

<<6-4-167 —- 6-4-169>>

6-4-168 ये च अभावकर्मणोः

प्रथमावृत्तिः

TBD.

काशिका

यकारादौ च तद्धिते अभावकर्मणोरर्थयोः अन् प्रकृत्या भवति। सामसु साधुः सामन्यः। वेमन्यः अभावकर्मणोः इति किम्? राज्ञो भावः कर्म वा राज्यम्। राजनिति पुरोहितादिषु पठ्यते, ततो ऽयं यक्प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1026 यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः. राजन्यः. जातावेवेति किम्? -.

बालमनोरमा

1138 ये चाभा। अनिति पूर्वसूतद्रमनुवर्तते। `प्रकृत्यैका'जित्यतः प्रकृत्येति। अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते। तदादिविधिः। तदाह-यादाविति। राजन्य इति। `क्षत्रियात्क्षात्रयायां स्वभार्यायामुत्पन्नो राजन्य' इति धर्मशास्त्रेषु प्रसिद्धम्। यत्प्रत्यये प्रकृतिभावान्न टिलोपः। शूद्रादाविति क्षत्रियाच्छूद्रायां वा तदन्यस्यां वा अनूढायामुत्पन्न इत्यर्थः। राजन इति। अणि रूपम्। तत्र `नस्तद्धिते' इति टिलोपे प्राप्ते–।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.