Table of Contents

<<6-4-168 —- 6-4-170>>

6-4-169 आत्माध्वानौ खे

प्रथमावृत्तिः

TBD.

काशिका

आत्मनध्वनित्येतौ खे परतः प्रकृत्या भवतः। आत्मने हितः आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। खे इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्मम् इति अव्ययीभावे अनश्च 5-4-108 इति समासान्तः टच्प्रत्ययः। प्राध्वम् इति उपसर्गादध्वनः 5-4-85 इति अच्प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1145

बालमनोरमा

1649 तत्र टिलोपे प्राप्ते–आत्माध्वानौ खे। प्रकृत्या स्त इति। `प्रकृत्यैक'जित्यस्तदनुवृत्तेरिति बावः। कर्मधारयादेवेति। `वि\उfffदाजनशब्दा'दिति शेषः। ?त्र व्याख्यानमेव शरणम्। वि\उfffदाजनीयमिति। वि\उfffदास्य जनो वि\उfffदाजनः=साधारमो वैद्यादिः। वि\उfffदाओ जनो यस्येति बहुव्रीहिर्वा। तस्मै हितमिति विग्रहः। रथकारजातिश्चेत्येते पञ्चजनां। तेभ्यो हितमिति विग्रहः।

वार्तिकं भाष्ये स्थितम्। वि\उfffदाजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम्। अथ भोगोत्तरपदस्योदाहरति– मातृभोगीण इति। मातृभोगाय हित इत्यर्थः। आचार्यादिति। आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः। नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात्।

तत्त्वबोधिनी

1273 कर्मधारयादेवेति। व्याख्यानादिति भावः। वि\उfffदाजनीयमिति। वि\उfffदास्य जनः= सर्वसाधारणो वेश्यादिः। वि\उfffदाओ जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थः। तस्मै हितमिति विग्रङः। रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम्। `दिक्सङ्ख्ये संज्ञाया'मिति समासः। `पञ्चजना'दित्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव। तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव। पञ्चजनीयः। सर्वजनीन इति। सर्वो जनः सर्वजनः। `पूर्वकालैके'ति तत्पुरुषः। तस्मै हितमिति विग्रङः। साध्वर्थे तु `प्रतिजनादिभ्यः ख'ञिति खञि सार्वजनीनवै\उfffदाजनीनशब्दौव्युत्पादितौ। इति। इहाऽखण्डपदत्वाऽभावेऽपि `अट्कुप्वा'ङित्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम्। मातुर्भोगः=शरीरं, तस्मै हित इति विग्रहः। यद्यपि `भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो'रित्यमरेण अहेरित्युक्तं, तथापि प्रयोगबाहुल्याभिप्रायं तत्। शक्तिस्तु शरीरमात्रे इत्याकरः। मातृपितृशब्दाभ्यामौत्सर्गिकश्छ एव। मात्रीयः। पित्रीयः। राजाचार्यादिभ्यां त्वौत्सर्गिकश्छोऽपि न भवति, अनभिधानात्। किं तु राज्ञे हितमाचार्याय हितमिति वाक्यमेवेत्याकरः।

Satishji's सूत्र-सूचिः

TBD.