Table of Contents

<<5-2-16 —- 5-2-18>>

5-2-17 अभ्यमित्राच् छ च

प्रथमावृत्तिः

TBD.

काशिका

अभ्यमित्रशदात् द्वितीयासमर्थातलङ्गामी इत्यस्मिन्नर्थे छः प्रत्ययो भवति। चकाराद् यत्खौ च। अभ्यमित्रम् अलङ्गामी अभ्यमित्रीयः अभमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छति इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1795 अब्यमित्राच्छ च। अमित्रः=शत्रुः। तमभिमुखो भूत्वेत्यर्थे `लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावे अभ्यमित्रशब्दः। तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1384 अभ्यमित्रात्। अभ्यमित्रशब्दो `लक्षणेनाभिप्रती आभिमुख्ये'इत्यव्ययीबावः। क्रियाविशेषणत्वाद्द्वितीया समर्थविभक्तिः।

Satishji's सूत्र-सूचिः

TBD.