Table of Contents

<<5-1-19 —- 5-1-21>>

5-1-20 असमासे निष्काऽदिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

आर्हातित्येव। विष्कादिभ्यः शब्देभ्यो ऽसमासे ठक् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञो ऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमासे इति किम्? परमनैष्किकम्। उत्तमनैष्किकम्। ठजेव भवति, अरिमाणान्तस्य इत्युत्तरपदवृद्धिः। अथ किमर्थम् असमासे इत्युच्यते यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। उगवादिभ्यो यत् 5-1-2) गव्यम्, सुगव्यम्, अतिसुगव्यम् विभाषा हविरपूपादिभ्यः (*5,1.4 अपूप्यम्, अपूपीयम्, यवापूप्यम्, यवापूपीयम्। शरीरावयवाद् यत् 5-2-6 दन्त्यम्, राजदन्त्यम् इत्येवमादि सिध्दं भवति। इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिरिष्यते। पारायणतुरायणचान्द्रायणं वर्तयति 5-1-72 द्वैपारायणिकः, त्रैपारायणिकः। लुगन्तायाः तु प्रकृतेर् न इष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतम् द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतम् इति तदन्तविधिप्रतिषेधात् शूर्पादञन्यत्रस्याम् 5-1-26 इति अञ् न भवति। सामान्यविहितष् ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्ताल् लुगभावः। तथा च उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि इति। निष्क। पण। पाद। माष। वाह। द्रोण। षष्ति। निष्कादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1660 असमासे। इति यावदिति। `तेनक्रिती'मित्येतत्पर्यन्तमित्यर्थः। ठगिति। पूर्वसूत्रात्तदनुवृत्तेरिति भावः। आर्हीयेष्विति। `तदर्हती'त्येतत्पर्यन्तमनुक्रान्तेषु `तेन क्रीत'मित्याद्यर्थेष्वित्यर्थः। नैष्किकमिति। निष्केण क्रीतमित्यर्थः। यथायोगं क्रीताद्यर्थान्वयः। समासे तु ठञ् [एव]इति। परमनिष्कादिशब्दादित्यर्थः।

तत्त्वबोधिनी

1282 असमासे निष्कादिभ्यः। निष्क, पण, पाद, माष,वाह,द्रोण, षष्टि–इति सप्त निष्कादयः। तत्र द्रोणशब्दः परिमाणवाची, षष्टिशब्दः सङ्ख्यावाची, ताभ्यां ठञि प्राप्ते वचनम्। इतरेषां तु पञ्तानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके। अन्ये त्वाहुः—-पूर्वसूत्रे परिच्छेदकमात्रं सङ्ख्याभिन्नं परिमाणशब्देन गृह्रते। तेन सर्वेभ्यष्ठञि प्राप्ते ठग्विधानार्थं वचनम्। न चैवं `परिमाणं तु सर्वतः'इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यं, `प्रमाणपरिमाणाभ्या सङ्ख्यायाश्चापि संशये'इत्यादावस्योपयोगादिति पक्ष द्वयमप्येतत्पदमञ्जार्यां स्पष्टम्\त्।

Satishji's सूत्र-सूचिः

TBD.