Table of Contents

<<5-2-5 —- 5-2-7>>

5-2-6 यथामुखसम्मुखस्य दर्शनः खः

प्रथमावृत्तिः

TBD.

काशिका

यथामुखशब्दात् सम्मुखशब्दात् षष्ठीसमर्थाद् दर्शनः इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। दृश्यते ऽस्मिनिति दर्शनः आदर्शादिः प्रतिबिम्बाश्रय उच्यते। निपातनात् सादृश्ये ऽव्ययीभावः। यथामुखं दर्शनः यथामुखीनः। सर्वस्य मुखस्य दर्शनः सम्मुखीनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1784 यथामुख। यथामुख, समुखं-आभ्यां षष्ठ\उfffद्न्ताभ्यां दर्शन इत्यर्थे खःस्यादित्यर्थः। दृश्यतेऽस्मिन्निति दर्शनः= आदर्शादिः। ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः ?, `यथाऽसादृश्ये' इति सादृश्ये तन्निषेधादित्यत आह– निपातनादिति। सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सर्वपर्ययस्येत्याह–समं सर्वं मुखं संमुखमिति। सममित्यस्य विवरणं सर्वमिति। समं च तन्मुखं चेति कर्मधारये संमुखशब्द इत्यर्थः। निपात्यत इति। इदं च भाष्ये स्पष्टम्। एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः।

तत्त्वबोधिनी

1375 यथामुख। दृश्यतेऽस्मिन् दर्शनः=आदर्शादिः। अधिक,रणे ल्युट्। `असादृश्ये'इति प्रतिषेधात्सादृश्ये कथं यथाशब्दस्य समासः?। तत्राह—-निपातनादिति। एतच्च वृत्तिग्रन्थमनुसृत्योक्तम्। भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द आश्रितः। तथा च मायामृगं प्रकम्योक्तं—`यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्'इति। यथामुखं दर्शन इति। अव्ययीभावस्यापि यथामुखशब्दस्येन्मत्तगङ्गादिवत्सत्त्ववचनत्वात्कर्मशक्तियोगे सति कृद्योगलक्षणा षष्ठी। तस्या `नाव्ययीभावा'दित्यमादेशः। सर्वस्य मुखस्येति। `संमुखस्ये'ति नोक्तं, प्रत्ययसंनियोगेनैव समशब्दस्याऽन्त्यलोपनिपातनात्। संशब्दस्तचुसमशब्दार्थे न दृश्यते, `संमुखो भव'इत्यत्र `अभिमुख'इत्यर्थप्रतीतेः। तत्र च खप्रत्ययस्याऽनिष्यमाणत्वात्। कथं तर्हि—-`संयुगे संमुखीनं तमुद्गदं प्रसहेत कः'इति भट्टिः। अभिमुखावस्थानात्सामथ्र्याद्भविष्यतीति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.