Table of Contents

<<5-1-18 —- 5-1-20>>

5-1-19 आऽर्हादगोपुच्छसङ्ख्यापरिमाणाट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

तदर्हति 5-1-63 इति वक्ष्यति। आ एतस्मादर्हसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः ठक् प्रत्ययस् तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन् वर्जयित्वा। अभिविधावयम् आकारः, तेन अर्हत्यर्थो ऽपि ठक् भवत्येव। ठञधिकारम् अध्ये तदपवादः ठग्विधीयते। वक्ष्यति तेन क्रीतम् 5-1-37। नैष्किकम्। पाणिकम्। अगोपुच्छसङ्ख्यापरिमाणातिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्। सङ्ख्या षाष्टिकम्। परिमाण प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते। सङ्ख्यापरिमाणयोः को विशेषः? भेदगणनं सङ्ख्या एकत्वादिः। गुरुत्वमानम् उन्मानं पलादि। आयाममानं प्रमाणं वितस्त्यादि। आरोहपरिणाहमानं परिमाणं प्रस्थादि। ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1659 आर्हादगो। तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्घटितसूत्रपरम्, आङभिव्याप्तौ, व्याख्यानात्। तदाह–तदर्हतीति। इत्येतदभिव्याप्येति। इदमपि सूत्रं प्रत्ययविशेषाऽश्रवणे उपतिष्ठते। अत्र सङ्ख्यापरिमाणयो पृथग्ग्रहणात्सङ्ख्या न परिमाणम्। तथा च वार्तिकम्–`ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः।' इति। तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं=गुञ्जामाषनिष्कसुवर्णपलादि। येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामविस्तारोच्छ्रायैः व्रीह्रादि परिच्छिद्यते तत्परिमाणं=प्रस्थादि। आयामो दैध्र्यं येन परिच्छिद्यते तत्प्रमाणम्=अरत्निप्रादेशादि। सङ्ख्या तु उक्तत्रितयापेक्षया बाह्रा=भिन्ना एकत्वद्वित्वादीत्यर्थः।

तत्त्वबोधिनी

1281 आर्हादगोपुच्छ। तदर्हतीति। इह `तदर्ह'मिति सूत्रान्तर्गतमच्प्रत्ययान्तं नाऽनुक्रियते किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः। अभिव्याप्येति। तेन `\उfffदौतच्छत्रिक'इत्यत्रार्हत्यर्थे ठग्भवतीति भावः। ननु परिमाणत्पृथक्सङ्ख्याग्रहणं व्यर्थं, परिमीयते परिच्छिद्यते येन तत्परिमाणं, सङ्ख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत्। अत्र श्लोकवार्तिकम्— `ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः'। अस्यार्थः–तुलादावारेप्य येन द्रव्यान्तपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादिगुरुत्वमुन्मीयते तदुन्मानम्। आरोहः=उच्छ्रायः। परिणाहो=विस्तारः। ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्रादिः परिमीयते तत्परिमाणं=प्रस्थादि,। परिः सर्वतोभावे। आयामो=दैघ्र्यं, स येन मीयते तत्प्रमाणम्। तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवति—यथा वस्त्रादेर्हस्तादिः। क्वचिदूध्र्याधोबागावस्थितस्य भवति—-यथा हास्तिनमुदकम्। ऊरुद्धयसमुदकमिति। सङ्ख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्त्रादिभ्यस्त्रिभ्यो बहुर्भूता एकत्वद्वित्वादिरिति। इह सङ्ख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाण्योर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.