Table of Contents

<<5-1-71 —- 5-1-73>>

5-1-72 पारायणतुरायणचाद्न्रायणं वर्तयति

प्रथमावृत्तिः

TBD.

काशिका

समर्थविभक्तिरनुवर्तते। अर्हति इति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयति अधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1713 अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारो निरूप्यते–अतः परं ठञेवेति। आर्हीयेष्वर्थेषु प्राग्वतीयठ?ञपवादा आर्हीयाष्ठगादयः। आर्हीयार्थेषु निरूपितेषु तत ऊध्र्वं ठगादिप्रत्ययानामनुवृत्तेरसम्भवात्प्राग्वतीयष्ठञेवानुवर्तत इत्यर्थः। पारायण। `द्वितीयान्तेभ्यः पारायणादिशब्देभ्यो वर्तयतीत्यर्थे ठञ्स्यादित्यर्थः। पारायणं वर्तयतीति। पारायणं–वेदाध्ययनम्। तद्वर्तयति=आवर्तयतीत्यर्थः। पारायणिकः छात्र इति। गुरौ त्वध्येतरि नायं प्रत्ययः, अनभिधानादिति भावः। तौरायणिको यजमान इति। ऋत्विजिनायं प्रत्ययः, अनभिधानादिति भावः। चान्द्रायणिक इति। चान्द्रायणं कृच्छ्रविशेषः।

तत्त्वबोधिनी

1324 पारायण। आदित आरभ्य आन्तादविच्छेदेन वेदस्याध्ययनं पारायणम्। तच्च शिष्येण च निर्वत्र्यते, अन्यतराऽसंनिधौ अध्ययनक्रियाया अनिष्पादनात्, तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम्। तदाह—छात्र इति। यजमान इति। यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्र `तौरायणिक'इति न प्रयुज्यते, अनभिधानादिति भावः। चान्द्रायणं—-व्रतविशेषः।

Satishji's सूत्र-सूचिः

TBD.