Table of Contents

<<5-1-25 —- 5-1-27>>

5-1-26 शूर्पादञन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

शूर्पशब्दादन्यतरस्याम् अञ् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञो ऽपवादः। पक्षे सो ऽपि भवति। शूर्पेण क्रीतम् शौर्पम्, शौर्पिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1668 शूर्पादञ्। `आर्हीयेष्वर्थेष्वि'ति शेषः। शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते। पक्षे ठञ्।

तत्त्वबोधिनी

1288 शूर्पादञ्। शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादत्वेनाऽञ् पक्षे विधीयते।

Satishji's सूत्र-सूचिः

TBD.