Table of Contents

<<5-1-1 —- 5-1-3>>

5-1-2 उगवादिभ्यो यत्

प्रथमावृत्तिः

TBD.

काशिका

प्राक् क्रीतातित्येव। उवर्णान्तात् प्रातिपदिकात् गवाऽदिभ्यश्च यत् प्रत्ययो भवति प्राक्क्रीतियेष्वर्थेषु। छस्य अपवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यः खल्वपि गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् चर्मणो ऽञ् 5-1-15 इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु अन्नविकारेभ्यश्च इति पठ्यते। ततो विभाषा हविरपूपाऽदिभ्यश्च 5-1-3 इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्ययेव इष्यते, सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धानाः इति। गवादिषु नाभि नभ च इति पठ्यते। तस्य अयम् अर्थः। नाभिशब्दो यत्प्रत्ययम् उत्पादयति नभं चादेशम् आपद्यते इति। नाभये हितः नभ्यो ऽक्षः। नभ्यमञ्जनम्। यस् तु शरीरावयवाद् यत् 5-1-6 इति यति कृते, नाभये हितं नाभ्यं तैलम् इति भवितव्यम्। गवाऽदिषु यता सन्नियुक्तो नभभावो ऽत्र न भवति। गो। हविस्। वर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च। शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वम्। शुन्यं, शून्यम्। चकारस्य अनुक्तसमुच्चयार्थत्वात् नस् तद्धिते इति लोपो न स्यात्। ऊधसो ऽनङ् च। ऊधन्यः कूपः। खर। स्खद। अक्षर। विष। गवादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.