Table of Contents

<<5-1-5 —- 5-1-7>>

5-1-6 शरीरावयवाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

शरीर प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकात् यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1143 दन्त्यम्. कण्ठ्यम्. नस्यम्..

बालमनोरमा

1644 शरीरावयवाद्यत्। शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः। छस्यापवादः। इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात्। भाष्ये तु `नासिकाया यत्-तस्- क्षुद्रेषु नस्' इति पठितम्। नाभ्यमिति। नाभये हितमित्यर्थः। नाभिरत्र शरीरावयवः। रथावयवत्वे तु नभादेश उक्तः।

तत्त्वबोधिनी

1269 नस्यमिति। नासिकायै हितम्। `नासिकायां भव'मिति विग्रहे तु `शरीरैवयवाच्चे'ति यत्। नस्यम्। तस्युदाहरणं—नस्तः। `अपादाने चाहीयरुहो'रिति तसिः। क्षुद्रे तु– नासिकायाः क्षुद्रो नःक्षुद्रः। `सुप्सुपे'ति समासः। नाभ्यमिति। `नाभि नभं चे'ति नभादेशो रथनाभावेव प्रवर्तते, तस्य गवादियता संनियोगशिष्टत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.