Table of Contents

<<5-1-14 —- 5-1-16>>

5-1-15 चर्मणो ऽञ्

प्रथमावृत्तिः

TBD.

काशिका

चर्मणः इति षष्ठी। चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकातञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ 5-1-12 इत्येतस्मिन् विषये। छस्य अपवादः। वार्ध्रं चर्म। वारत्रं चर्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1655 चर्मण्यपीति। चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एव `चर्मणोऽ'ञित्ययं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः। एतच्च `उगवादिभ्यः' इति सूत्रभाष्ये स्थितम्। औपानह्रमिति। उपानदर्तं चर्मेत्यर्थः। चर्मणोऽञ्। `चर्मण' इति षष्ठ\उfffद्न्तं विकृतावन्वेति। तदाह–चर्मणो या विकृतिस्तद्वाचकादिति। `तादथ्र्यचतुथ्र्यन्ता'दिति शेषः। अञ्स्यादिति। `प्रकृतौ वाच्याया'मिति शेषः। वध्रर्यै इद'मिति पाठान्तरम्। `वृधिवपिब्यां रन्' इति वृधेः रनि लघूपधगुणे रपरत्वे वध्र्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि वार्ध्री रज्जुः।

तत्त्वबोधिनी

1278 चर्मणोऽञ्। `तदर्थ'मित्यादिपूर्वोक्ते अञ्स्यात्। छस्यापवादः। `चर्मणः'इति षष्ठी न तु पञ्चमी। पञ्चम्यां तु चर्मशब्दाच्चर्मार्थायां प्रकृतौ प्रत्ययः स्यात् `चर्मणे द्वीपी'त्यादौ। न चेष्यते `चार्मणो द्वीपी'ति। तदाह—चर्मणो या विकृतिरिति। वार्ध्र्यै इति। `वृधिवपिभ्या'मिति रन्प्रत्यये वध्र्रशब्द आद्युदात्तश्चर्मवाची, `तस्य विकारः'इत्यण्। `टिड्ढे'तित ङीप्। वार्ध्री रज्जुः, तस्यै। वधेरौणादिके ष्ट्रनि तु वध्रीति भवति। ततोऽञि तु वाध्रम्। `नध्री वध्री वरत्रा स्या'दित्यमरः। `चञ्चाः पश्य, वध्रिकाः पश्य'इति भाष्यम्।

Satishji's सूत्र-सूचिः

TBD.