Table of Contents

<<4-4-144 —- 5-1-2>>

5-1-1 प्राक्क्रीताच् छः

प्रथमावृत्तिः

TBD.

काशिका

तेन क्रीतम् 5-1-37 इति वक्ष्यति। प्रागेतस्मात् क्रीतसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति तस्मै हितम् 5-1-5 इति। वत्सेभ्यो हितः वत्सीयो गोधुक्। करभीयः उष्ट्रः। अकरभीयः। अवत्सीयः। अर्थो ऽवधित्वेन गृहीतः, न प्रत्ययः। तेन प्राक् ठञः छन्ः इति नोक्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1140 तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते..

बालमनोरमा

1640 अथ पञ्चमाध्यायः। प्राक्क्रीताच्छः। क्रीतशब्दस्तद्धटितसूत्रपरः। तदाह–तेन क्रीतिमिति। `तेन क्रीत'मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेशु `छ' इत्युपस्थितं भवतीति यावत्। उगवादिभ्यो यत्। उश्च गवादयश्च इति द्वन्द्वात्पञ्चमी। उवर्णान्तादिति। प्रातिपदिकविशेषणत्वात्तदन्तविदिः। `उगिद्वर्णग्रहणवर्ज'मित्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः। इदमपि सूत्रं प्राक्कीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषाऽनुपादाने उपतिष्ठते। नाभि नभं चेति। गवादिगणसूत्रम्। नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः। नभ्योऽक्ष इति। यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते तस्मै हितोऽक्षदण्डः। स हि अनुगुणत्वान्नाभये हितः। नभ्यमञ्जनमिति। अञ्जनं-तैलसेकः। नाभेरञ्जनेकृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम्। अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्रते। भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह- -रथनाभावेवेदममिति। शरीरावयवविशेष वाचिनाभिशब्दात्तु `शरीरावयवाद्य'दिति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः। शुनः संप्रसारणमिति। गवादिगणसूत्रम्। \उfffदान्शब्दाद्यत्स्यात्प्रकृतेः संप्रसारणं, तस्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः। शून्यं–शुन्यमिति। शुने हितमित्यर्थः। ऊधसोऽनङ् चेति। इदमपि गणसूत्रम्। ऊधश्शब्दाद्यत्स्यात्प्रकृतेरनङादेशश्चेत्यर्थः। आदेशे ङकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः।

तत्त्वबोधिनी

1265 प्राक् क्रीताच्छः। इत्यतः प्रागिति। इहार्थोऽवधित्वेन गृह्रते, न तु प्रत्ययः, प्रकृतिर्वा। तेनाऽर्थ एवावधिमान्त इति प्राक्कीताद्येऽर्था हितादयस्तेष्वस्योपस्थानम्। अवधिसजातीयो ह्रवधिमान् भवति। यथा `मासात्परः'इति कालः प्रतीयते, `ग्रामात्पूर्वः'इति देशः, `अलोऽन्त्यात्पूर्व'इत्यलेव। एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते। अन्यथा छस्य यदादेश्च संनिधानाऽविशेषत्तव्यत्तव्यानीयरामिव पर्यायः स्यात्। अतोऽत्रार्थोऽवधित्वेन गृह्रते। ननु यदादिविषये छो न भविष्यति `विभाषा हविरपूपादिभ्यः'इति विभाषागद्रहणाल्लिङ्गात्। तथा च प्रत्ययस्य प्रकृतोर्वा अवधित्वस्वीकारेऽपि न क्षतिः। उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत्। अत्राहुः– –एवं सतु `छः'इत्यावाधिकारोऽस्तु, नार्थोऽवधिनिर्देशेन। प्राग्वतेष्ठ'ञित्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात्। स्पष्ठप्रतिपत्त्यर्थमवधिनिर्देशः, अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत्। तर्हि `विभाषा हवि'रित्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्थ एवावधित्वेन निर्देष्टुमुच#इत इति। उगवादिभ्यो। उवर्णादेर्गशब्दादेर्वशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात्। गवाद्यन्तर्गणसूत्राण्याह—नाभि नभं चेति। नाबिशब्दो यतं लभते, नभादेशं चेत्यर्थः। नभ्योऽक्ष इति। रथाङ्गं सच्छिद्रं– -नाभिः। तदनुप्रविष्टः काष्ठविशेषोऽक्षः। स च तदनुगुणत्वात्तस्मै हितः। अञ्जनं =तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। रथमाभावेवेति। शरीरावयवे तु नाभ्यमित्येव, परेण `शरीरावयवाद्य'दित्यनेनाऽस्य बाधादिति भावः। शुनःसं। शून्यमितचि। चकारस्यानुक्तसमुच्चयार्थत्वात् `नस्तद्धिते'इति टिलोपोन भवति। `ये चाभावकर्मणोः'इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पररूपे च कृते अन्रूपाऽभावात्। दीर्घपक्षे तु तद्विधान सामथ्र्यादपि टिलोपाऽभावः सुपरिहरः। नङ् चेति। चाद्यत्। `नश्चे'ति सुवचमिति मनोरमा। अन्ये त्वाहुः—-ऊधन्यशब्दात् `तत्करोति तदाचष्टे'इति णिचि `णाविष्ठव'दिति टिलोपे णिजन्तात्कर्तरि क्विपि णिलोपयलोपयोः कृतयोः `अनुनासिकस्य क्वी'ति दीर्घे ततः क्विबन्तादाचारक्विपि `ऊधानते'इत्यादावात्मने पदार्थ नङो ङित्करणमावश्यकमिति। ऊधन्य इति। `ये चे'ति प्रकृति भावः।

Satishji's सूत्र-सूचिः

TBD.