TBD.
ठञादयस् त्रयोदश प्रत्ययाः प्रकृताः। तेषाम् इतः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते तेन इति तृतीयासमर्थात् क्रीतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतम् साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्। तेन इति मूल्यात् करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानान् न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतम् इति। द्विवचनबहुवचनान्तात् प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतम् इति, अनभिधानादेव। यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणम् अस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति। द्वाभ्यां क्रीतम् द्विकम्। त्रिकम्। पञ्चकम्। तथा मुद्गैः क्रीतम् मौद्गिकम्। माषिकम्। न ह्येकेन मुद्गेन क्रयः सम्भवति।
TBD.
1147 सप्तत्या क्रीतं साप्ततिकम्. प्रास्थिकम्..
1679 तेन क्रीतम्। अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः। ठञिति। `उदाह्यियते इति शेषः। गौ पुच्छिकमिति। `अगोपुच्छे'ति पर्युदासाट्ठगभावे ओत्सर्गिकष्ठञिति भावः। साप्ततिकमिति। सप्तत्या क्रीतमित्यर्थः। `अगोपुच्छसङ्ख्ये'ति पर्युदासाट्ठगभावे ठञिति भावः। प्रास्थिकमिति। प्रस्थेन क्रीतमित्यर्थः। `अगोपुच्छसङ्ख्यापरिमाणा'दिति पर्युदासाट्ठगभावे ठञिति भावः। ठगिति। `उदाह्यियते' इति शेषः। नैष्किकमिति। निष्केण क्रीतमित्यर्थः। `असमासे निष्कादिभ्यः' इति ठगिति भावः।
1298 तेनक्रीतम्। तेनेति तृतीयान्कात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः। ठञिति। `आर्हा'दिति सूत्रे `अगोपुच्छे'त्यादिपर्युदासाट्ठगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठञ् भवतीत्यर्थः। ननु देव दत्तेन क्रीतं, [पाणिना क्रीतं,]संतोषेण क्रीतमित्यादिवतिप्रसङ्ग इति चेत्। अत्राहुः—करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छब्दादुत्पन्ना, न त्वन्याऽपि, अन्यत्र त्वमिभिधानान्न प्रत्ययः। एतच्च `तद्धिताः'इति महासंज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति।
TBD.