Table of Contents

<<5-1-17 —- 5-1-19>>

5-1-18 प्राग्वतेष् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

तेन तुल्यं क्रिया चेद् वतिः 5-1-115 इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः ठञ् प्रत्ययस् तेष्वधिकृतो विदितव्यः। वक्ष्यति पारायणतुरायणचान्द्रायणं वर्तयति। पारायणिकः। तौरायणिकः। चान्द्रायणिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1146 तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते..

बालमनोरमा

1658 अथ आर्हीयाः। प्राग्वतेः। वतिशब्दस्तद्धटितसूत्रपरः। तदाह–तेन तुल्यमिति। `तेनतुल्य'मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत्।

तत्त्वबोधिनी

1280 प्राग्वतेष्ठञ्। `ठ'ञित्येव वक्तव्ये `प्राग्वते'रिति वचनं मध्ये योऽगदिकारवानपवादः, `सर्वभूमिपृथिवीभ्यामणञौ'`शीर्षच्चेदाद्यच्चे'त्येवमादिः, तेन विच्छेदेऽपि `पारायणतुरायणे'त्यादौ ठञेव यथा स्यादित्येवमर्थम्। न चैवं पारायणादिसूत्र एव ठञ्निर्दिश्यतामिति वाच्यम्, उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां तेभ्याष्ठञः प्रकृतसूत्रं विनाऽलाभात्। तथा च गौपुच्छिकः साप्ततिक इत्यादौ ठञर्थमिदं सूत्रमत्र प्रदेशे आरब्धमिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.