Table of Contents

<<5-1-62 —- 5-1-64>>

5-1-63 तदर्हति

प्रथमावृत्तिः

TBD.

काशिका

ततिति द्वितीयासमर्थादर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रम् अर्हति श्वैतछत्रिकः। वास्त्रयुग्मिकः। शत्यः, शतिकः। साहस्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1151 लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः. श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः..

बालमनोरमा

1705 तदर्हति। अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात्। इष्यते तु द्वितीयान्तादेव प्रत्ययः। तत्राह–लब्धुमिति। \उfffदौतच्छत्रिक इति। आर्हीयष्ठक्।

तत्त्वबोधिनी

1318 \उfffदौतच्छत्रिक इति। एवं खारीकाः। शत्यः। शतिकः। साहरुआः। इत्यादीन्युदाहर्तव्यानि।

Satishji's सूत्र-सूचिः

TBD.