Table of Contents

<<6-3-16 —- 6-3-18>>

6-3-17 घकालतनेसु कालनाम्नः

प्रथमावृत्तिः

TBD.

काशिका

घसंज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति। घ पूर्वह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल पूर्वाह्णेकाले, पूर्वह्णाकाले। तन पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्नः इति किम्? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव, रात्रितरायाम्। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर् न इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात्। तेन घतनग्रहणे, तदन्तग्रहनं न भवति। काल इति न स्वरूपग्रहणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

960 घकालतनेषु। शेषपूरणेन सूत्रं व्याचष्टे–सप्तम्या इति। घेति घे परे उदाहरणसूचनमिदम्। `तरप्तमपौ घः'। पूर्वाह्णेतरे इति। अतिशायने सप्तम्यन्तात्तरप्तमपौ। अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते। कालेति। उदाहरणसूचनमिदम्। पूर्वाह्णेकाले इति। अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव। तनेति। उदाहरणसूचनमिदम्। पूर्वाह्णेतने इति। `विभाषा पूर्वाह्णापराह्णाभ्या'मिति ठ्युठ्युलौ, तुट् च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.