Table of Contents

<<4-3-22 —- 4-3-24>>

4-3-23 सायंचिरंप्राह्णेप्रगे ऽव्ययेभ्यष् ट्युट्युलौ तुट् च

प्रथमावृत्तिः

TBD.

काशिका

कालातित्येव। सायं चिरं प्राह्णे प्रगे इत्येतेभ्यः अव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्च अदिष्टयोः तुडागमो भवति। सायन्तनम्। चिरन्तनम्। प्राह्णेतनम्। प्रगेतनम्। अव्ययेभ्यः दोषातनम्। दिवातनम्। सायम् इति मकारान्तं पदम् अव्ययम्, ततो ऽव्ययादेव सिद्धः प्रत्ययः। यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस् तस्य इदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते। दिवसावसानं सायः। चिरशब्दस्य अपि मकारान्तत्वं निपात्यते। प्राह्णे, प्रगे इत्येकारान्तत्वम्। चिरपरुत्परारिभ्यस्त्नो वक्तव्यः। चिरत्नम्। परुत्नम्। परारित्नम्। प्रगस्य छन्दसि गलोपश्च। प्रत्नम्। अग्रपश्चाड्डिमच्। अग्रिमम्। पश्चिमम्। अन्ताच् च इति वक्तव्यम्। अन्तिमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1089 सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च. सायन्तनम्. चिरन्तनम्. प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते. प्राह्णेतनम्. प्रगेतनम्. दोषातनम्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.