Table of Contents

<<4-3-155 —- 4-3-157>>

4-3-156 क्रीतवत् प्रैमाणात्

प्रथमावृत्तिः

TBD.

काशिका

प्राग्वतेष्ठञ् 4-1-18 इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद् विहिताः, ते विकारे ऽतिदिश्यन्ते। परिमाणात् क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन् विषये। अणादीनाम् अपवादः। सङ्ख्या अपि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणम् एव। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारो नैष्किकः। शतेन क्रीतं शत्यम्, शतिकम्। शतस्य विकारः शत्यः, शतिकः। साहस्रः। वतिः सर्वसादृश्यार्थः। अध्यर्धपूर्वाद् द्विगोर् लुगसंज्ञायाम् 5-1-28 इत्येवम् आदिकम् अप्यतिदिश्यते। द्विसहस्रः, द्विसाहस्रः। द्विनिष्कः, द्विनैष्किकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1513 क्रीततवत्परि। उपाधिनेति। प्रकृत्यादि विशेषणेनेत्यर्थः। नैष्किक इति। `असमासे निष्कादिभ्यः' इति क्रीते ठक्। शत्यः शतिक इति। `शताच्च ठन्यतौ' इति क्रीते ठन्यतौ।

तत्त्वबोधिनी

1177 नेष्किकमिति। `तेन क्रीत'मिति ठक्। शत्यः। शतिक इति। `शताच्च ठन्यतौ'।

Satishji's सूत्र-सूचिः

TBD.