Table of Contents

<<4-3-154 —- 4-3-156>>

4-3-155 ञितश् च तत्प्रत्ययात्

प्रथमावृत्तिः

TBD.

काशिका

अञित्येव। तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः। ञिद् यो विकारावयवप्रत्ययस् तदन्तात् प्रातिपदिकातञ् प्रत्ययो भवति विकारवयवयोः एव। मयटो ऽपवादः। ओरञ् 4-2-71), शम्याष्ट्लञ् (*4,3.142), प्राणिरजतादिभ्यो ऽञ् (*4,3.154, उष्ट्राद्वुञ् 4-3-157), एण्या ढञ् (*4,3.159, कंसीयपरशव्ययोर् यञञौ लुक् च 4-3-168 इत्येते प्रत्ययाः गृह्यन्ते। दैवदारवस्य विकारो ऽवयवो वा दैवदारवम्। दाधित्थस्य दाधित्थम्। पालाशस्य पालाशम्। शामीलस्य शामीलम्। कापोतस्य कापोतम्। औष्ट्रकस्य औष्ट्रकम्। ऐणेयस्य ऐणेयम्। कांस्यस्य कांस्यम्। पारशवस्य पारशवम्। ञितः इति किम्? बैल्वमयम्। तत्प्रत्ययातिति किम्? बैदमयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1512 ञितश्च तत्प्रत्ययात्। तयोः= विकारावयवयोः प्रत्ययः-तत्प्रत्ययः। तदाह–ञिद्य इति। तयोरेवेति। विकारावयवयोरेवेत्यर्थः। शामीलस्येति। शम्या विकारोऽवयवो वा शामीलम्। `शम्याः ष्यञ्'। शामीलस्य विकारोऽवयवो वेत्यर्थे अञि शामीलमिति भवतीत्यर्थः। `नित्यं वृद्धे'ति मयटोऽपवादः। दाधित्थमिति। दधित्थस्य विकारोऽवयवो वा दाधित्थम्। अनुदात्तादित्वादञ्। दाधित्थस्य विकारो दाधित्थम्। मयडपवादोऽञ्। बैल्वमयमिति। `बिस्वादिभ्यो'णिति बिल्वशब्दादणि बैल्वः। तस्य विकार इत्यर्थे मयडेव, न त्वञ्। अणो ञित्त्वाऽभावादिति भावः। भाष्ये तु `विकारावयवप्रत्ययान्तात्पुनस्तत्प्रत्यया अनभिधानान्ने'त्याश्रित्या सूत्रमिदं प्रत्याख्यातम्।

तत्त्वबोधिनी

1176 शामीलमिमि। शामीलशब्दः `शम्याः ष्ल'ञिति ष्लञन्तः। दधित्थात् `अनुदात्तादेश्चे'त्यञ्। दाधित्थस्य दाधित्थम्। बैल्वमयमिति। बिल्वशब्दोऽणन्तः।

Satishji's सूत्र-सूचिः

TBD.