Table of Contents

<<5-1-27 —- 5-1-29>>

5-1-28 अध्यर्धपूर्वद्विगोर् लुगसंज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

आर्हातित्येव। अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात् प्रातिपदिकद् द्विगोश्च परस्य आर्हीयस्य लुग् भवति असंज्ञायां इति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य भस्याढे तद्धिते इति पुंवद्भावः। प्रत्ययान्तस्य विशेषणम् असंज्ञाग्रहणं न चेत् प्रत्ययान्तं संज्ञा इति। अध्यर्धशब्दः सङ्ख्या एव, किमर्थं भेदेन उपादीयते? ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति, सङ्ख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् 5-4-17 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1670 अध्यर्धपूर्व। अध्यर्थशब्दः पूर्वो यस्य स अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी। सौत्रं पुंस्त्वम्। तदाह–अध्यर्धपूर्वाद्द्विगोश्चेति। आर्हीयस्येति। प्रत्यासात्तिलभ्यम्। अध्यर्थकंसमिति। अध्यारूढमर्द्धं यस्मिन् तत् अध्यर्धम्। `प्रादिभ्यो धातुजस्ये'ति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः। सार्धमित्यर्थः। अध्यर्धेन कंसेन क्रीतमिति विग्रहः। तद्धितार्थे द्विगुः। `संख्याया अतिशदन्तायाः' इति कन्। तस्यानेन लुगिति भावः। द्विकंसमिति। द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः। तद्धितार्थे द्विगुः। `संक्याया अतिशदन्तायाः' इति कन्। तस्यानेन लुगिति भावः। द्विकंसमिति। द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः। ठको लुक्। नच अध्यर्थकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यं, किञ्चित्संख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात्। पाञ्चकलायिकमिति। पञ्च कलायाः परिमाणमस्येति। विग्रहे `तद्धितार्थ' इति द्विगुः। `तदस्ये'तिठञ्। सङ्ख्यासंज्ञासूत्रभाष्ये तु `अध्यर्धपूर्वा'दिति पाठो दृश्यते। नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं, तेन क्रीतं द्विशौर्पिकमित#इ पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यं, द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम्।

तत्त्वबोधिनी

1290 अध्यर्धपूर्व। अध्यारूढमर्धं यस्मिन् तदध्यर्धम्। `प्रादिभ्यो धातुजस्ये 'त्युत्तरपदलोपः। अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भे बहुव्रीहौ कृते अध्यर्धपूर्वं च द्विगुश्चेकति द्वन्द्वः। सौत्रं पुंस्त्वम्। द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे——अध्यर्धपूर्वादित्यादि। एतच्च वृत्तिकाररीत्या व्याख्यातम्। अत्र वार्तिकं `द्विगोर्लुकि तन्निमित्तग्रहणम्'। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम्। द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम्। द्विशूर्पेण क्रीतं द्विशैर्पिकमिति। पूर्वोक्तोदाहरणे तु ठञो लुङ् माभूदिति। ननु द्वयोः शूर्पयोः समाहारो द्विशूर्पी, तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात्। तद्धितस्यात्रे द्विगोरनिमित्ततया `अध्यर्धे'ति लुकोऽप्रवृत्तेः। `द्विगोः परस्ये'ति व्याख्यायां तु नः सिद्धमिष्टमिति चेन्मैवम्। `अर्थविशेषाऽसंप्रत्यये अतन्निमित्तादपी'ति वचनान्तरस्या वार्तिककृतैवोक्तत्वात्। यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते तत्र सतद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः। एवं च द्विशूर्पमिति तद्धितार्थद्विग#उना सह द्विशूप्र्या क्रीतमित्यस्यार्थो न भिद्यते इति समाहाराद्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः। वस्तुतस्तु सूत्रे `द्विगो'रिति षष्ठीमाश्रित्य `द्विगोर्निमित्तं यस्तद्धितः'इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम्। `द्वुशूप्र्या क्रीत 'मिति विग्रहे तु द्विशूर्पादेव प्रत्ययो भवति, अवयविकन्यायात् , न तु द्विशूर्पीशब्दादित्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम्। नन्वध्यद्र्धशब्दः संख्यावाच्येव, तथा च लोके गण्यते `एकोऽध्यार्धो द्वौ'इति। अतएव अध्यर्धकमिति कन्, अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यद्र्धसंवत्सरिकमित्यादौ `सङ्ख्यायाः संवत्सरसङ्ख्यस्य चे'त्युत्तरपदवृद्धिश्च भवति, तत्किमध्यर्धपूर्वग्रहणेनेति चेत्। अत्राहुः—-`सङ्ख्याकार्यमेतस्य किंचन्ने'ति ज्ञापनार्थमिदम्। तेन कन्द्विगुसमासोत्तरपदवृद्धिभ्योऽन्यत्र भवति। तद्यथा—अध्यर्धं करोति। नेह कुतृवसुच्। यः सकृत्फलान्तां क्रियामभिनिर्वर्त्त्य पुनस्तामेव कुर्वन्मध्ये निवर्तते स एवमुच्यते इति। कलायाः परिमाणमस्येति विग्रहे `तद्धितार्थ 'इति समासकः। `तदस्य परिमाण'मिति ठञ्। एवं पाञ्चलोहितिकमपि बोध्यम्। पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्वत्समासतद्धितौ। `भस्याऽढे तद्धिते'इति पुंबद्भावाल्लोहिनीशब्दस्येकारनकारयोरभावः। परिमाणविशेषस्य मानधेये एते। असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणं, न तु द्विगोः। एतच्च वृत्तिकृता सूत्रशयमनुरुध्य वर्णितमिति इहापि ततैवोक्तम्। भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं प्रत्याख्यातम्। तथा हि द्विगुविशेषणमसंज्ञाग्रहणम्। पञ्चकलायचपञ्चलोहितशब्दौ च द्विगू कृततद्धितलुकावेव संज्ञे। यस्तु ताभ्यामुत्पद्यते ठन्?स श्रूयते एव, द्विगोरनिमित्तत्वेन तस्य लुगभावादिति।

Satishji's सूत्र-सूचिः

TBD.