Table of Contents

<<4-1-17 —- 4-1-19>>

4-1-18 सर्वत्र लोहितादिकतन्तेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

यञः इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यः यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कत इति , न प्रतिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी बाभ्रव्यायणी। कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्। प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्यः इति मन्यते। कतन्तेभ्यः इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे 4-2-111 इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयम् अपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्य इमे छात्राः शाकलाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

469 सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः। लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः। `कतन्ते'त्यत्र शकन्ध्वादित्वात्पररूपम्। `यञ' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। `प्राचां ष्फ तद्धितः' इति सूत्रं `प्राचां'वर्जमनुवर्तते। सर्वत्रेति। सर्वेषु मतेष्वित्यर्थः। नित्यमिति यावत्। तदाह–लोहितादिभ्य इत्यादिना। लौहित्यायनीति। लोहितस्यापत्यं स्त्रीति विग्रहः। लोहितशब्दाद्गर्गादियञन्तात् ष्फः. ष इत्, फकारस्यायन्,`यस्येति चे'ति यकारादकारस्य लोपः, `तद्धितः' इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः। कात्यायनीति। पूर्ववत्प्रक्रिया बोध्या।

तत्त्वबोधिनी

423 सर्वत्र। सर्वषां मत इत्यर्थः। तदेतत्फलितमाह–नित्यं ष्फः स्यादिति। नन्वारम्भसामथ्र्यान्नित्.त्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेत्। अत्राहुः– पूर्वसूत्रे बाधकबाधनोपयुक्तस्येह स्पष्टार्थमभ्युपगमान्न वैयथ्र्यमिति। `यञ'इत्यनुवर्तनादाह–यञन्तेभ्य इति। लोहितादिर्गर्गाद्यन्तर्गण इति भावः। लौहित्यायनीति। `सांशित्यायानी'`बाभ्राव्यायणी'त्यदायोऽपि ज्ञेयाः। ननु गर्गादौ कत–कण्व-शकलेति पठ\उfffद्ते, तथा च `शाकल्यायनी'ति रूपं न सिध्येत्। यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठ\उfffद्ते, तथा च `शाकल्यायनी'ति रूपं न सिध्येत्। यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठ\उfffद्ते तर्हि शाकल्यस्य छात्राः शाकला इत्यत्र `कण्वादिभ्यो गोत्रे'इति कण्वादिकार्यमण् न सिध्येत्। उच्यते–कतकण्वशकलेति गणपाधे कण्वशब्दात् पूर्वं शकलशब्दः पठितव्यः।`कतन्तेभ्य'इत्यत्र कतस्याऽन्तः कतन्तः, कतोऽन्तो येषां ते कतन्ताः। शाकन्ध्वादित्वात्पररूपम्। कतन्तश्च कतन्ताश्चेति बहुव्रीहितत्पुरुषयोरेकशेषोऽभ्युपेयः। तथा `कण्वादिभ्य'इत्यत्रापि कण्वस्यादिः कण्वादिः, कण्व आदिर्येषामिति बहुव्रीहितत्पुरुषयोरेकशेषस्तथा च सर्वेष्टसिद्धिरिति।

Satishji's सूत्र-सूचिः

TBD.