Table of Contents

<<4-1-81 —- 4-1-83>>

4-1-82 समर्थानां प्रथमाद् वा

प्रथमावृत्तिः

TBD.

काशिका

त्रयम् अप्यधिक्रियते समर्थानाम् इति च, प्रथमादिति च, वा इति च। स्वार्थिकप्रत्ययावधिश्चायम् अधिकारः, प्राग्दिशो विभक्तिः 5-3-1 इति वावत्। स्वार्थिकेषु ह्यस्य उपयोगो न अस्ति, विकल्पो ऽपि तत्र अनवस्थितः। केचिन् नित्यम् एव भवन्ति। लक्षणवाक्यानि तस्य अपत्यम् 4-1-92, तेन रक्तं रागात् 4-2-1 तत्र भवः 4-3-53 इत्येवम् आदीनि भविष्यन्ति। तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवति इति वेदितव्यम्। समर्थानाम् इति विर्धारणे षष्ठी। समर्थानां मद्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते। तस्य इति सामान्यं विशेषलक्षणार्थम्। तदीयं प्राथम्यं विशेषाणां विज्ञायते। उपगोः अपत्यम् औपगवः। समर्थानाम् इति किम्? कम्बल उपगोः, अपत्यं देवदत्तस्य। प्रथमातिति किम्? षष्ठ्यान्ताद् यथा स्यात्, प्रथमान्तान् मा भूत्। वा इति किम्? वाक्यम् अपि यथा स्यातुपगोरपत्यम् इति। यद्येवं समासवृत्तिः तद्धितवृत्त्या बाध्येत उपग्वपत्यम् इति। न एष दोषः। पूर्वसूत्रादन्यतरस्यां ग्रहणम् अनुवर्तते। तेन एतदपि भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1000 इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्..

बालमनोरमा

1056 तदेवं समासप्रप्चं निरूप्य तद्धितप्रकरणमारभते–समर्थाना प्रथमाद्वा। विधेयस्याऽदर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह–इदं पदत्रयमधिक्रियत इति। स्वरितत्वप्रतिज्ञाबलादिति भावः। अधिकारस्योत्तरावधिमाह–प्राग्दिश इति यावदिति। `प्राग्दिसो विभक्ति'रिति सूत्रमुत्तरावधिरित्यर्थः `समर्थाना'मिति निर्धारणषष्ठी। प्राथम्यं च `तस्यापत्य'मित्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम्। समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः। `समर्थात्प्रथमाद्वे'ति सुवचम्। केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः। एवंच `प्राग्दिशः' इत्यादिषु स्वार्थिकप्रत्ययविधिषु नाऽस्य प्रवृत्तिरिति लभ्यते इत्याहुः ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया `समर्थः पदविंधि'रिति परिभाषयैव एकार्थीभावरूपसामथ्र्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह–सामथ्र्यं परिनिष्ठितत्वमिति। समर्थः पटुः शक्त इति पर्यायाः। शक्तत्वं च कार्योत्पादनयोग्यत्वम्। शब्दस्य च कार्यमर्थप्रतिपादनमेव। तच्छक्तत्वं च कृतेष्वेव सन्धिकार्येषु संभवति। तथाच कृतसन्धिकार्यत्वमेव सामथ्र्यमिह पर्यवस्यति। तदाह–कृतसन्धिकार्यत्वम#इति।

तत्त्वबोधिनी

882 अपवादसङ्गत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह–समर्थानामिति। `अन्यतरस्याङ्ग्रहणानुवृत्तेः समासोऽपी'ति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम्। विधेयाऽनिर्देशादुत्तरत्र प्रकृतिविशेषकाङ्क्षासत्त्वाच्चनाऽयं स्वतन्त्रो विधिरित्याह—अधिक्रियत इति। `पदत्रय'मित्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता। तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्याऽनिवृत्तिः, तथा च `प्राग्दिशः'इति सूत्रे `समर्थानां प्रथमा'दिति निवृत्तं, `वा' इति त्वनुवर्तत एव'—इति वक्ष्यमाणमूलग्रन्थः सङ्गच्छते।

Satishji's सूत्र-सूचिः

TBD.