Table of Contents

<<4-1-178 —- 4-2-2>>

4-2-1 तेन रक्तं रागात्

प्रथमावृत्तिः

TBD.

काशिका

शुक्लस्य वर्णान्तरापादनम् इह रञ्जेरर्थः। रज्यते ऽनेन इति रागः। तेन इति तृतीयासमर्थाद् रागविशेषवाचिनः शब्दाद् रक्तम् इत्येतस्मिन्नर्थे यथाविहितम् प्रत्ययो भवति। कषायेण रक्तं वस्त्रम् काषायम्। माञ्जिष्ठम्। कौसुम्भम्। रागातिति किम्? देवदत्तेन रक्तं वस्त्रम्। कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पदौ इति? उपमानाद् भविष्यति, काषायौ इव काषायौ, हारिद्राविव हारिद्रौ। द्वैपवैयाघ्रादञ् 4-2-12 इति यावत् तृतीयासमर्थविभक्तिरनुवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1036 अण् स्यात्. रज्यतेऽनेनेति रागः. काषायेण रक्तं वस्त्रं काषायम्..

बालमनोरमा

1184 तेन रक्तं रागात्। रज्यत इति। रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घञि कृते `गञि च भावकरणयो'रिति नलोपे `चजोः कुघिण्ण्यतो'रिति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः। तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति। `तेने'ति सामान्यनिर्देशः। तथाच तेन रक्तं=वर्णान्तरं प्राप्तमित्यर्थे, रागात्=रञ्जनद्रव्यवाचकात्तृतीयान्तादण् स्यादित्यर्थः, `प्राग्दीव्यतोऽणि'त्यधिकारात्। कषायेणेति। कषायो धातुविशेषः, रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः। माञ्जिष्ठमिति। मञ्जिष्ठानाम रञ्जनद्रव्यविशेषः।

तत्त्वबोधिनी

980 तेन रक्तं। तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः त्युः। रज्यतेऽनेनेतीति। बाहुलकात्करणे घञ्। राग इति। रञ्जकद्रव्यमित्यर्थः। शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः।

Satishji's सूत्र-सूचिः

TBD.