Table of Contents

<<4-3-52 —- 4-3-54>>

4-3-53 तत्र भवः

प्रथमावृत्तिः

TBD.

काशिका

कालातिति निवृत्तम्। तत्र इति सप्तमीसमर्थात् ङ्याप्प्रातिपदिकात् भवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सत्ता भवत्यर्थो गृह्यते, न जन्म, तत्र जातः 4-3-25 इति गतार्थत्वात्। स्रुघ्ने भवः स्रौघ्नः। माथुरः। राष्ट्रियः। पुनस् तत्रग्रहणं तदस्य इति निवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1095 स्रुग्घ्ने भवः स्रौग्घ्नः. औत्सः. राष्ट्रियः..

बालमनोरमा

1407 तत्र भवः। कालादिति निवृत्तम्। अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। भवनं सत्ता, जननमुत्पत्तिरिति भेदः। रुआऔग्घ्न इति। #औत्सर्गिकोऽण्। राष्ट्रिय इति। `राष्ट्रावारे'ति घः।

तत्त्वबोधिनी

1105 तत्र भवः। `काला'दिति निवृत्तम्। कालसंबद्धस्य `तत्रे'त्यस्य निवृत्तये पुनस्तत्रग्रहणात्। न च पूर्वसूत्रस्थस्य `त'दित्यस्य ब्यावृत्तये तत्रग्रहणमस्त्विति वाच्यं, `तदस्य'इति सूत्रेस्येत उत्तरत्रापि सुपठत्वात्। यद्यपि भूधातुरुत्पत्तावपि वर्तते, तथापीह सत्तार्थ एव वर्तते, `त्र जातः'इति पृथग्ग्रहणादिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.