Table of Contents

<<4-1-24 —- 4-1-26>>

4-1-25 बहुव्रीहेरूधसो ङीष्

प्रथमावृत्तिः

TBD.

काशिका

ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ऊधसो ऽनङ् 5-4-131 इति समासान्ते कृते अनो बहुव्रीहेः 4-1-12 इति डाप्प्रतिषेधयोः प्राप्तयोरिदम् उच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेः इति किम्? प्राप्ता ऊधः प्राप्तोधाः। अन उपधालोपिनो ऽन्यतरस्याम् 4-1-28 इत्यस्य अपि ङीपो ऽयम् उत्तरत्र अनुवृत्तेर् बाधक इष्यते। समासान्तश्च स्त्रियाम् एव। इह न भवति, महोधाः पर्जन्यः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

478 बहुव्रीहेः। `ऊधस' इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम्। तदाह–ऊधोऽन्तादिति। कुण्डोध्नीति। अनङि कृते ङीषि `अल्लोपोऽनः' इति भावः। `ऊधस्तु क्लीबमापीन'मित्यमरः। ङीष्विधेस्तु स्वरे विशेषः फलम्। स्त्रियां किमिति। ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः। कुण्डोधो धैनुकमिति। कुण्डमिव ऊधोयस्येति विग्रहः। नपुंसकत्वस्फोरणाय `धैनुक'मिति विशेष्यम्। धेनूनां समूह इत्यर्थः। `अचित्तहस्तिधेनोष्ठक्'। `इसुसुक्तान्तात्कः' `आदिवृद्धिः, क्लीबत्वं लोकात्। अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः। ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौ `स्त्रिया'मित्यभावादित्यत आह–तद्विधाविति। ऊधसोऽनङ्विधौ `स्त्रिया'मित्युपसङ्ख्यानादित्यर्थः। बहुव्रीहेः किम् ?। ऊधः प्राप्तेति विग्रहे `प्राप्तापन्ने च द्वितीयये'ति समासे `प्राप्तोधाः'।

तत्त्वबोधिनी

431 ऊधोन्तस्य बहुव्रीहेरिति। समासान्तप्रकरणस्थत्वेऽप्यनङो न प्रत्ययत्वम्, अन्यथा ङित्त्ववैयथ्र्यापत्तेरिति प्राञ्चः। वस्तुतस्तु ष्यङ इव प्रत्ययत्वेऽप्यादेशत्वमविरुद्धं, `कुण्डोध्नी'त्यत्र ङीषि कृते स्वरेऽपि विशेषाऽभावादिति बोध्यम्। स्त्रियामिति। उपसङ्ख्यानाल्लब्धमेतत्। डाम्ङीन्बिषेधेष्बिति। `डाबुभाभ्या'मिति वैकल्पिको डाप्। `अन उपधालोपिनोऽन्यतरस्या'मिति विकल्पेन ङीप्। `अनो बहुव्रीहे'रित्यनेन `ऋन्नेभ्य'इति प्राप्तस्य ङीपो निषेध इथि विवेकः। ङीष् स्यादिति। पर्कृतो ङीबेव तु न विहितः, स्वरे विशेषात्। कुण्डोन्धीति। कुण्डमिव ऊधो यस्याः सा। बहुव्रीहेः किम्?। प्राप्ता ऊधः–प्राप्तोधाः। `प्राप्तापन्ने चे'ति समासः। धैनुकमिति। `अचित्तहस्ती'ति समूहार्थे ठक्। `इसुसुक्तान्तात्कः'। स्त्रियामित्युपसङ्ख्यानादिति। नन्विहैव लाघवार्थं `बहुव्रीहेरूधसो ङीषे' `नश्चे'ति सूत्र्यताम् `अनङ् चे'ति वा। समासान्तेषु `ऊधसो न'ङिति च त्यक्त्वा `धनुषो न'ङित्येव पठ\उfffद्ताम्। मैवम्। कबभावे सावकाशस्याऽस्य पक्षे कपा बाधपत्तेः। सिद्धान्ते त्वनङः समासान्ततया शेषत्वमेवेह नास्तीति न कप्।

Satishji's सूत्र-सूचिः

TBD.