Table of Contents

<<4-1-27 —- 4-1-29>>

4-1-28 अन उपधालोपिनो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहेरित्येव। अन्नन्तो यो बहुव्रीहिः उपधालोपी, तस्मादन्यतरस्यां ङीप् प्रत्ययो भवति। ङीपा मुक्ते ङाप्प्रतिषेधौ भवतः। किमर्थं तर्हि इदम् उच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः? अनुपधालोपिनः ङीप्प्रतिषेधार्थं वचनम्। बहुराजा, बहुराज्ञी, बहुराजे। बहुतक्षा, बहुतक्ष्णी, बहुतक्षे। अनः इति किम्? बहुमत्स्या। उपधालोपिनः इति किम्? सुपर्वा, सुपर्वे, सुपर्वाः। सुपर्वाणौ, सुपर्वाणः। डाप्प्रतिषेधावेव अत्र भवतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

456 अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन्शब्दात् `अनो बहुव्रीहे'रिति ङीब्निषेधे `डाबुभाभ्या'मिति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते-अन उपधा। इदं सूत्रं नात्र प्रकरणे पठितम्, किंतु `दामहायनान्ताच्चे'त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम्। `बहुव्रीहेरूधसो ङी'षित्यतो बहुव्रीहेरित्यनुवर्तते, किंतु `दामहायनान्ताच्चे'त्युत्तरं पठितं, प्रसङ्गादत्रोपन्यस्तम्। `बहुव्रीहेरूधसो ङी'षित्यतो बहुव्रीहेरित्यनुवर्तते, `संख्याव्ययादेर्ङी वित्यतो ङीबिति च। प्रातिपदिकादित्यदिकृतमन इत्यनेन विशेष्यते, तदन्तविधिः। तदाह– अन्नन्तादित्यादिना। पक्षे डाब्ङीब्निषेधाविति। कदाचिन्ङीब्निषेधः, कदाचिड्डाप्येत्यर्थः। अन्यतरस्याङ्ग्रहणस्य प्रयोजनमिदम्। अकृतेऽत्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्य `अनो बहुव्रीहे'रिति ङीप्प्रतिषेधस्य `डाबुभाभ्या'मिति डापश्च बहुराजन्शब्दादावुपधालोपिन्यनवकाशेन ङीपा बाधः स्यात्। बहुराज्ञीति। ङीपि अल्लोपे सोर्हल्ङ्यादिलोप इति भावः। बहुराजेति। डापि ङीब्निषेधे च सौ रूपम्। बहुराज्ञ्याविति। ङीप्पक्षे औङि यण्। बह#उराजे इति। डाप्पक्षे औङि रूपम्। बहुराजानाविति ष। ङीब्निषेधे औङि रूपम्।

तत्त्वबोधिनी

411 अन उपधा। `बहुव्रीहेरूधसो ङी'षित्यतो बहुव्रीहिग्रहणं `सङ्ख्याव्ययादेङी'बित्यतो ङीप्चानुवर्तत इत्याशयेनाह–अन्नन्तादित्यादि। नियमार्थमिदमित्युक्तम्। न चैवं पूर्वसूत्रेणैव विकल्पसिद्धाविहान्यतरस्याङ्ग्रहणं व्यर्थमिति वाच्यम्, असति ह्रन्यतरस्याङ्ग्रहणे नित्यार्थो विधिरेवायं स्यान्न तु नियम इति।

Satishji's सूत्र-सूचिः

TBD.