Table of Contents

<<4-1-11 —- 4-1-13>>

4-1-12 अनो बहुव्रीहेः

प्रथमावृत्तिः

TBD.

काशिका

अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिह उदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुशर्मा, सुशर्माणौ, सुशर्माणः। बहुव्रीहेः इति किम्? अतिक्रान्ता राजानम् अतिराजी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

454 अनो बहुव्रीहेः। `अन' इति `बहुव्रीहे'रित्यस्य विशेषणम्, तदन्तविधिः। नेति ङीविति च पूर्ववदनुवर्तते। तदाह–अन्नन्तादिति। बहुयज्वेति। बहवो यज्वानो यस्या इति विग्रहः। नान्तलक्षणङीप प्रतिशेधे राजवद्रूपाणि। `न संयोगा'दिति निषेधान्नायमुपधालोपी। अतोऽत्र `अन उपधालोपिनः' इति विकल्पो न प्रवर्तितुमर्हति।

तत्त्वबोधिनी

409 अनो बहुव्रीहेः। ननु `राजयुध्वे'त्यादिसिद्धयेऽवश्यं वक्तव्येन `वनो न हशः'इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण?। मैवम्। अन्नन्ताद्बहुव्रीहेः `डाबुभाभ्या'मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात्। तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तो `वनो र चे'ति यो रेफः सोऽपि दुर्लभ एवेति `वनो न हशः'इति वार्तिकमबहुव्रीह्रर्थमिति फलितम्। बहुयज्वानाविति। `न संयोगो'दिति निषेधान्नायमुपधालोपि। तेनाऽत्र `अन उपधालोपिन'इति वक्ष्यमाणविकल्पो न प्रवर्तते।

Satishji's सूत्र-सूचिः

TBD.