Table of Contents

<<4-1-25 —- 4-1-27>>

4-1-26 सङ्ख्याव्ययादेर्ङीप्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण ङीषि प्राप्ते ङीब् वधीयते। सङ्ख्यादेः अव्ययादेश्च बहुव्रीहेरूधस्शब्दान्ताद् ङीप् प्रत्ययो भवति। सङ्ख्यादेः तावत् द्व्यूध्नी। त्र्यूध्नी। अव्ययादेः अत्यूध्नी। निरूध्नी। आदिग्रहणं किम्? द्विविधोध्नी, त्रिविधोध्नी इत्यत्र अपि यथा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

479 सङ्ख्याव्ययादेर्ङीप्। सङ्ख्याव्ययादेरूधोऽन्तात्स्त्रियां ङीप् स्यादित्यर्थः। ङीषोऽपवाद इति। `बहुव्रीहेरूधसो ङी'षित्यस्यापवाद इत्यर्थः। स्वरे विशेषः। सङ्ख्यादेरुदाहरति–द्व्यूध्नीति। द्वे ऊधसी यस्या इति विग्रहः। बहुव्रीहेरित्येवेति। `बहुव्रीहे'रित्यनुवर्तते एवेत्यर्थः। ऊधोऽतिक्रान्तेति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासस्य अबहुव्रीहित्वान्न ङीप्। अत एव नानङ्, नापि ङीष्।

तत्त्वबोधिनी

432 सङ्ख्याऽव्यया। आदिग्रहणत्पदान्तरव्यवधानेऽपि स्यादेव, द्विविधोन्धी।

Satishji's सूत्र-सूचिः

TBD.