Table of Contents

<<5-4-130 —- 5-4-132>>

5-4-131 ऊधसो ऽनङ्

प्रथमावृत्तिः

TBD.

काशिका

ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। कुण्डम् इव ऊधः अस्याः सा कुण्दोध्नी। घटोध्नी। ऊधसो ऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत्, महोधाः पर्जन्यः। घटोधो धैनुकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

477 तत्र विशेषमाह–ऊधसोऽनङ्। बहुव्रीहौ सक्थ्यक्ष्णो'रित्यतो बहुवीहावित्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते, `ऊधसः' इत्यनेन विशेष्यते, तदन्तविधिः। तदाह–ऊधोऽन्तस्येति। समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम्। इत्यनङि कृते इति। अनङि ङकार इत्, अकार उच्चारणार्थः, `ङिच्चे'त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः। डाब्डीब्निषेधेष्विति। `डाबुभाभ्या'मिति वैकल्पिके डापि, `अन उपधालोपिनः' इति वैकल्पिके ङीपि, तदुभयाऽभावे `ऋन्नेभ्यः' इति प्राप्तस्य ङीपः `अनो बहुव्रीहे'रिति निषेधे च प्राप्ते इत्यर्थः।

तत्त्वबोधिनी

430 ऊधसोऽनङ्। नादेशेनैव सिद्धेऽनङ्करणं `धनुषश्चे'त्युत्तरार्थम्, अन्यथा `शाङ्र्गधन्वे'ति न सिद्ध्येदित्याहुः। वस्तुत इहार्थमप्यावश्यकमेव, अन्यथा अनोलक्षणिकत्वेनाऽल्लोपाऽपर्सङ्गादित्यन्ये। इह `बहुव्रीहौ सक्थ्यक्ष्णो'रित्यतो बहुव्रीहावित्यनुवर्तते इत्याह–

Satishji's सूत्र-सूचिः

TBD.