TBD.
कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये कृते, ढक् च म्ण्डूकात् 4-1-119 इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? तस्य इदं विवक्षायाम् अणि कृते भविष्यति। कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्। आसुरायणी। शैषिकेष्वर्थेषु इञ्श्च 4-2-112 इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः।
TBD.
–
470 कौरव्यमाण्डूकाभ्यां च। आभ्यामिति। कौरव्यमाण्डूकाभ्यामित्यर्थः। क्रमेणेति। कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च `ङीपोऽपवाद' इत्युचितमिति भ्रमं वारयितुमाह–कुर्वादिभ्य इत्यादिना। कौरव्यायणीति। कुरोरपत्यं स्त्रीति विग्रहः। `कुर्वादिभ्यो ण्यः' इति ण्यः। णकार इत्, `ओर्गुणः,' `आदिवृद्धिः, `गोत्रं च चरणैः सहे'ति जातित्वेऽपि योपधत्वात् `जातेरस्त्रीविषया'दिति ङीषभावे टाप् प्राप्तः। तं बाधित्वा ष्फः, ष इत्, आयन्, `यस्येति चे'त्यकारलोपः। षित्त्वान्ङीष्। `यस्येति चे'ति भावः। माण्डूकायनीति। मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः। `ढक् च मण्डूका'दित्यण्, आदिवृद्धिः, `यस्येति च,' `गोत्रं च चरणैः सहे'ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, `यस्येति च,' षित्त्वान्ङीष्, `यस्येति चे'ति भावः। `टाब्ङीपोरपवाद' इति पाठस्तु प्रामादिकः।\र्\नासुरेरुपसङ्ख्यानमिति। `ष्फस्ये'ति शेषः। आसुरायणीति। असुरस्यापत्यं स्त्रीति विग्रहः। `अत इञ्', आदिवृद्धिः, ष्फः, ष इत्,आयन्। `यस्येति च'। `षित्त्वान्ङीष्, `यस्येति च'। णत्वमिति भावः।
424 कौरव्य। टाम्ङीषोरिति योपधत्वेन `जाति'रिति तथापि तत्र `ङी'बिति लेखकपर्माद एव। पारिभाषिकस्य पौत्रपर्भृतिगोत्रस्यैव जातित्वान्ङीषः प्राप्तिर्नेति मतान्तराभि प्रायेण वा तथोक्तमिति बोध्यम्। कौरव्यसाहचर्यान्माण्डूकशब्दोऽप्यपत्यपत्र्ययान्त एवेह गृह्रते न तु `तस्येद'मित्यणन्तः, तेन `यद्यसौ कूपमाण्डूकि। तवैकावतिकः स्मय'इति भट्टिप्रयोगः सिद्धः। तत्र हि मण्डूकस्येयं भार्येति विवक्षया `तस्येद'मित्यण्।
TBD.