Table of Contents

<<4-1-19 —- 4-1-21>>

4-1-20 वयसि प्रथमे

प्रथमावृत्तिः

TBD.

काशिका

कालकृतशसीरावस्था यौवनादिः वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। किशोरी। बर्करी। प्रथमे इति किन्? स्थविरा। वृद्धा। अतः इत्येव, शिशुः। वयस्यचरम इति वक्तव्यम्। वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्री अभिधीयते। कथं कन्या? कन्यायाः कनीन च 4-1-116 इति ज्ञापकात्। उत्तानशया, लोहितपादिका इति? नैताः वयःश्रुतयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1259 प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात्. कुमारी..

बालमनोरमा

472 वयसि प्रथमे। प्राणिनां कालकृतावस्ताविशेषो वयः। तच्च कौमारं यौवनं वार्धकं चेति त्रिधा। `पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥' इति दर्शनात्। चतुर्विधं वय इत्यन्ये। `आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥' इति दर्शनात्। `प्रथमे वयसी'त्यनन्तरं `विद्यमाना'दिति शेषः। `अजाद्यतष्टाप्' इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते। तदन्तविधिः। स्त्रियामित्यधिकृतम्। `ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते। तदाह–प्रथमवयोवाचिन इत्यादिना। कुमारीति। अप्रादुर्भूतयौवनेत्यर्थः। वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः। प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः। किमर्थमित्यत आह–वधूटी चिरण्टीति। अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः। अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह- -यावनवाचिनाविति। भाष्यप्रामाण्यादिति भावः। शिशुरिति। शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः। कन्याया नेति। `ङी'बिति शेषः। कुत इत्यत आह–कन्यायाः कनीन चेति। नच `द्विवर्षा स्त्री'त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात्।

तत्त्वबोधिनी

425 वयसि। कालकृता शरीरावस्था वयः। यस्त्वर्थपर्करणादिकमनपेक्ष्य श्रवणमात्रेण वयः पर्तिपादयति स वयोवाचीत्युच्यते, अन्तरङ्गत्वात्। तेनेह न,–उत्तानशया। लोहितपादा। इह प्रकरणादिना वयसः प्रतीतावपि शब्दादप्रतीतेः। अवलाऽपि हि व्याध्यादिवशादुताना शेते, अलक्तकेन च रक्तचरणा भवति। प्रथमेति किम्?। वृद्धा। कुमारीति। पर्थमवयोवचन एवाऽयं शब्दो न त्वनूढत्वप्रयुक्तः। पुंस्यपि `कुमार'इति प्रयोगात्। `वृद्धकुमारी'ति तु गौणः प्रयोगः। यौवनं न प्रथमवयः, किंतु द्वितीयमिति वार्तिकारम्भः। `उपचयापचयलक्षणे द्वे एव वयसी' इति पक्षे यौवनस्यापि प्राथम्यात्सूत्रेणैव सिध्यतीत बोध्यम्। वयांसि चत्वारीत्येके। यदाहुः–`अद्ये वयसि नाधीतं द्वितीये नार्जितं धनम्। तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि'?॥ इति। त्रीणीत्यन्ये। यदाहुः–`पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थावीरे भावे न स्त्री स्वातन्त्र्यमर्हति॥'इति।

Satishji's सूत्र-सूचिः

TBD.