Table of Contents

<<4-1-173 —- 4-1-175>>

4-1-174 ते तद्राजाः

प्रथमावृत्तिः

TBD.

काशिका

जन्पदशब्दात् क्षत्रियादञ् 4-1-168 इत्येवम् आदयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसंज्ञाकान्डेन व्यवहितत्वात्। ते ऽञादयः तद्राजसंज्ञा भवन्ति। तथा चोदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुषु तेन एव अस्त्रियाम् 2-4-62 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1033 अञादयस्तद्राजसंज्ञाः स्युः..

बालमनोरमा

1174 ते तद्राजाः। ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते। तदाह–अञादय इति।

तत्त्वबोधिनी

970 ते तद्राजाः। अञादय इति। ततः प्राचीनास्तु त्तच्छब्देन न परामृश्यन्ते, गोत्रयुवसंज्ञाकाण्डेन विच्छेजात्। एतदर्थमेव तत्काण्डं मध्ये कृतमाचार्येणेत्याहुः। वस्तुतस्तु `तद्राजे'त्यधिकृत्य `जनपदशब्दात्क्षत्रियाद'ञित्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाऽभावेऽपि न क्षतिरित्यन्ये।

Satishji's सूत्र-सूचिः

TBD.